| YouTube Channel

द्वित्व (dvitva)

 
Capeller Eng
English
द्वित्व
n.
doubleness, duality
dual or reduplication (g. ).
Spoken Sanskrit
English
द्वित्व - dvitva -
n.
- duality [ Philosophy ]
द्वित्व - dvitva -
n.
- dual
द्वित्व - dvitva -
n.
- reduplication
द्वित्व - dvitva -
n.
- couple
द्वित्व - dvitva -
n.
- pair
Apte
English
द्वित्वम् [dvitvam], 1 A pair, couple.
The number 'two'.
Duality.
The dual.
Reduplication.
Apte 1890
English
द्वित्वं 1 A pair, couple.
2 The number ‘two’.
3 Duality.
4 The dual.
5 Reduplication.
Monier Williams Cologne
English
द्वि—त्व
n.
=
duality (phil. )
dual,
Pāṇ.
ii, 3, 46,
Kāś.
reduplication, Sch. on i, 1, 58, 59
&c.
Macdonell
English
द्वित्व dvi-tva,
n.
two
duality
dual
reduplication
🞄[Page128-3] 🞄-devatyâ,
a.
sacred to two deities
🞄*-droṇa,
n.
sg. two droṇas (measure): 🞄in. two droṇas at a time.
Benfey
English
द्वित्व द्वि + त्व।
n.
The number Two,
Bhāṣāp. 88.
Shabdartha Kaustubha
Kannada
द्वित्व
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಎರಡು ರೂಪವಾಗಿರುವಿಕೆ /ಎರಡಾಗಿರುವಿಕೆ
निष्पत्तिः - > "त्वः" (५-२-११९)
व्युत्पत्तिः - > द्वयोर्भावः
Abhyankara Grammar
English
द्वित्व doubling, reduplication pres- cribed for (I) a root in the per- fect tense excepting the cases where the affix अाम् is added to the root before the personal end- ing: e.g. बभूव, चकार, ऊर्णुनाव etc. cf P. VI. 1.1, 2
(2) a root before the vikarana affixes सन्, यङ्, श्लु and चङ् e. g. बुभूषति, चेक्रीयते, चर्करीति, जुहोति, अचीकरत् etc. cf. P. VI. 1.9- l l
(3) a word ending in अम् . ( णमुल् ) in the sense of repetition, e. g. स्मारं स्मारं वक्ष्ये, भोजं भोजं व्रजति cf. आभीक्ष्ण्ये द्वे भवतः P. VIII. 1.12 Vart. 7
(4) any word (a) in the sense of constant or frequent action, (b) in the sense of repetition, (c) showing reproach, or scorn, or quality in the sense of its incomplete possess-, ion, or (d) in the vocative case at the beginning of a sentence in some specified senses
reduplication is also prescribed for the prepositions परि, प्र, सम्, उप, उद्, उपरि, अधि, अघस् in some specified senses cf. P. VIII. 1.1 to 15. A letter ex- cepting हृ and र्, is also repeated, if so desired, when (a) it occurs after the letter ह् or र् which is pre- ceded by a vowel e g. अर्क्कः अर्द्धम् etc. cf VIII. 4.46
or when (b) it is preceded by a vowel and follow- ed by a consonant e. g. दद्ध्यत्र, म्द्धवत्र cf. P. VIII. 4.47. For details see Kas. on VIII. 4.46-52. The word द्वित्व is sometimes used in the sense of the dual number
cf. Kas. on P. I.2.51. The words द्वित्व, द्विर्वचन and द्विरुक्त are generally used as synonyms. Panini generally uses the word द्वे. For द्वित्व in Vedic Literature cf. R. Pr. VI. 1.4
T. Pr. XIV. 1-8 V, Pr. IV. 101-118.
वाचस्पत्यम्
Sanskrit
द्वित्व
न०
द्वयोर्भावः अयमेकः अयगेक इत्यनेकैकत्वबोध-रूपापेक्षाबोधजन्ये द्रव्यनिष्ठे गुणभेदे तच्च समवायेनवस्तुद्वये प्रत्येकं तिष्ठति, पर्य्याप्तिसम्बन्धेन तु द्वयोरेवतिष्ठति प्रत्येकम् तदेवापेक्षाबुद्धिजन्यम् तेनैव इमौद्वावित्यादि व्यवहारः समवायेन प्रत्येकं द्वित्वसत्त्वेऽपिन तेन तथा व्यवहारः औलुक्यशब्दे १५८७ पृ० तदुत्-पत्तिविनाशप्रकारश्च दृश्यः ।“द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजा मताः अ-नेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः अपेक्षा-बुद्धिनाशाच्च नाशस्तेषां निरूपितः अनेकैकत्वबु-द्धिर्या साऽपेक्षाबुद्धिरुच्यते” भाषा० “द्वित्वादयो व्यासज्य-वृत्तिसंख्या अपेक्षाबुद्धिजन्या” “अनेकेति यद्यपिद्वित्वादिसमवायः प्रत्येकं घटादावपि वर्त्तते तथा-प्येको द्वाविति प्रत्ययाभावात् एको द्वावितिप्रत्ययसम्भवाच्च द्वित्वादीनां पर्य्याप्तिलक्षणः कश्चनसम्बन्धाऽनेकाश्रयोऽभ्युपगम्यते अपेक्षाबुद्धिनाशादिति ।प्रथममपेक्षाबुद्धिस्ततो द्वित्वात्पत्तिः ततो विशेषण-ज्ञानं द्वित्वत्वनिर्विकल्पकरूपम् ततो द्वित्वविशिष्ट-प्रत्यक्षम् अपेक्षाबुद्धिनाशे ततो द्वित्वनाश इति ।यद्यपि ज्ञानान्तरं किमपि त्रिक्षणस्थायि योग्यविभुवि-शेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वात् तथाप्यपेक्षाबुद्धेस्त्रिक्षणस्थायित्वं कल्प्यते अन्यथा निर्विकल्पकालेअपेक्षाबुद्धिनाशात् अनन्तरं द्वित्वस्यैव नाशः स्यात्न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् विद्य-मानस्यैव चक्षुरादिना ज्ञानजननोपगमात् तस्माद्द्वित्वप्रत्यक्षादिकमपेक्षाबुद्धेर्नाशकं कल्प्यते चापे-क्षाबुद्धिनाशात् कथं द्वित्वनाश इति वाच्यम् का-लान्तरेद्वित्वप्रत्यक्षाभावात् अपेक्षाबुद्धिस्तदुत्पादिकातन्नाशस्तन्नाशक इति कल्पनात् अतएव तत्पुरुषी-यापेक्षाबुद्धिजन्थद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते ।न चापेक्षाबुद्धेर्द्वित्वप्रत्यक्षकारणत्वमस्त्वित वाच्यम् ।लाघवेन द्वित्वं प्रति कारणत्वस्यैवोचितत्वात् अती-न्द्रिये द्व्यण्युदावपेक्षाबुद्धिर्योगिनाम् सर्गादिकाली-नपरमाण्वादावीश्वरीयापेक्षाबुद्धिर्ब्रह्माण्डान्तरवर्त्तियोगि-नामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति” “अपक्षाबुद्धिःकेत्यत आह अनेकेति अयमेकः अयमेकः इ-त्याकारिका इत्यर्थः इदन्तु बोध्यं यत्रानियतैकत्व-ज्ञानं तत्र द्वित्वादिभिन्ना बहुत्वसंख्योत्पद्यते यथासेनावनादाविति कन्दलीकारः आचार्य्यास्तु त्रित्वा-दिकमेव बहुत्वं मन्यन्ते तथा त्रित्वत्वादिव्या-पिका बहुत्वत्वजातिः सेनादौ चोत्पन्ने त्रित्वादौत्रित्वत्वाद्यग्रहो दोषात् इत्थञ्च इतरतो बहुलेयंसेनेति प्रतीतिरुपपद्यते बहुत्वस्य संख्यान्तरत्वे तत्ता-रतम्याभावादित्यवधेयम्” मुक्ता० ।उप० वृत्तौ विशेषः कश्चिदुक्तो यथा“तदयं द्वित्वाद्युत्पादविनाशक्रमः समानजातीययोर-समानजातीययोर्द्रव्ययोश्चक्षुःसन्निकर्षे सति तन्नि-ष्ठैकत्वसंख्ययोर्यत्सामान्यमेकत्वत्वं तयोनिर्विकल्पकानन्तरंतद्विशिष्टगुणबुद्धिरुत्पद्यते सैव चापेक्षाबुद्धिस्तया तयो-र्द्रव्ययोर्द्वित्वमुत्पद्यते, उत्पन्नस्य द्वित्वस्य यत्सामान्यंद्वित्वत्वं तदालोचनेनापेक्षाबुद्धेर्नाशो द्वित्वत्वविशिष्ट-द्वित्वगुणविषया विशिष्टबुद्धिश्चैकदा भवति, तदग्रिम-क्षणे द्वित्वगुणस्यापेक्षाबुद्धिविनाशः द्वे द्रव्येइति द्वित्वविशिष्टद्रव्यज्ञानञ्च युगपदुत्पद्यते, ततस्त-स्माद् द्वित्वविशिष्टद्रव्यज्ञानात् संस्कारः तदयं संक्षेप, उत्पत्स्यमानद्वित्वाधारेणेन्द्रियसन्निकर्षस्तत एकत्वगुणगतसामान्यज्ञानं तत एकत्वत्वसामान्यविशिष्टैकत्वगुण-समूहालम्बनरूपाऽपेक्षाबुद्धिस्ततो द्वित्वगुणोत्पत्तिस्ततस्तद्ग-तसामान्यस्य ज्ञानं ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानंततो द्वित्वगुणविशिष्टद्रव्यज्ञानं ततः संस्कार इती-न्द्रियसन्निकर्षमारभ्य संस्कारपर्य्यन्तमष्टौ क्षणाः वि-नाशक्रमस्तु एकत्वत्वसामान्यज्ञानस्यापेक्षाबुद्धितोविनाशःद्वित्वत्वसामान्यज्ञानादपेक्षाबुद्धेर्विनाशः द्वित्वत्वसामान्य-ज्ञानस्य द्वित्वगुणबुद्धितोविनाशः द्वित्वगुणबुद्धेश्चद्वित्वविशिष्टद्रव्यज्ञानात् तस्य संस्कारात् विषयान्तर-ज्ञानाद्वेति नन्वेकत्वज्ञानात्तद्विशिष्टद्रव्यज्ञानमेव कथंनोत्पद्यते तत्सामग्रीसत्त्वात् हि गुणज्ञाने सतिद्रव्यज्ञाने विलम्बोऽस्ति तथा तत एवापेक्षाबुद्धे-र्विनाशे तन्नाशाच्च तदग्रिमक्षण एव द्वित्वनाश इतिद्वे द्रव्ये इति विशिष्टज्ञानपूर्वक्षण एव द्वित्वविना-शापत्त्या द्वित्वविशिष्टद्रव्यज्ञानस्यानुत्पत्तिरेवेति चेन्न द्वि-त्वाद्युत्पत्तिसामग्य्रनभिभूताया एवापेक्षाबुद्ध्वेर्द्रव्यविशि-ष्टज्ञानजनकत्वनियमात् फलबलेन कथाकल्पनात् ननुतथापि स्वजनितसंस्कारेणैवापेक्षाबुद्धिविनाशे पुनः सदोषस्तदवस्थ एव, द्वित्वविशिष्टज्ञानपूर्वक्षण एव द्वित्व-नाशस्य सम्भवादिति चेन्न केवलगुणज्ञानस्य संस्का-राजनकत्वात् हि केवलोगुणः क्वापि स्मर्य्यते, सर्वत्र द्रव्योपरागेणैव गुणस्मरणात्, ननु भवत्वेवंतथापि विशिष्टबुद्धिकालेऽपि द्वित्वनाशे विशिष्टप्रती-त्यनुदयस्तदवस्थ एव हि वर्त्तमानावभासिनी वि-शिष्टप्रतीतिर्विशेषणनाशकाले सम्भवति तथाऽदर्शनादितिचेन्न विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गा-ग्रहस्य विशिष्टज्ञानसामग्य्राः प्रकृतेऽपि सम्भवात् यदितु विशेषेणेन्द्रियसन्निकर्षोऽपि मृग्यते तदा पूर्वक्षणेतस्यापि सत्त्वात् पूर्वक्षणवर्त्तिन एव सन्निकर्षस्यकारणत्वेनाभ्युपगमात्, विशेषणं विशिष्टज्ञानागोच-रोऽपि सम्भवति, विशिष्टज्ञानजनकज्ञानविषयत्व-मात्रमेव हि विशेषणत्वे तन्त्रं नतु विशिष्टज्ञान-विषयत्वमपि उपलक्षणस्याप्येवं विशेषणत्वापत्तिरितिचेन्नाप्रत्याय्यव्यावृत्तिसामानाधिकरण्यस्य विशेषणत्वे त-न्त्रत्वात् उपलक्षणन्तु तद्व्यधिकरणम्, एवं यदा दे-वदत्तगृहे काकवत्ता तदा काकोविशेषणं, यदा तुउपरिभ्रमन् असन् तदोपलक्षणम् एवं सति रूप-वति रस इत्यादौ रूपादेरपि विशेषणत्वापत्तिरितिचेन्न इष्टत्वात्, तर्हि तत्रापि रसोवर्त्तेतेति चेन्नविशिष्टवृत्तेर्विशेषणवृत्तित्वानावश्यकत्वात् हि विशे-षणं विशिष्टमतावेकं तन्त्रम् द्वित्वनाशकाले विशे-षणसम्बन्धो नास्ति कुतोविशिष्टप्रत्यय इति चेन्नअतद्व्यावृत्तेरेव वैशिष्ट्यपदार्थत्वात्, तद्भानन्तु तत्रा-पीति किञ्चिदनुपपन्नमित्याचार्य्याः एवं द्वित्वो-त्पत्तिविनाशवत् त्रित्वोत्पत्तिविनाशावप्यूहतीयौ द्वित्व-मपेक्षाबुद्धिनाशनाश्यम्, आश्रयनाशविरोधिगुणान्तरा-भावे गुणस्य सतोऽविनाशित्वात् चरमज्ञानवत् चर-मज्ञानस्यादृष्टनाशनाश्यत्वात् क्वचिदाश्रयनाशादपि न-श्यति यत्र द्वित्वाधारावयवकर्मसमकालैकत्वसामान्य-ज्ञानम्, तद्यथा अवयवकर्मसामान्यज्ञाने विभागापे-क्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्यनाशद्वित्वसामान्य-ज्ञाने तत्र द्रव्यनाशाद्द्वित्वनाशः, सामान्यज्ञानादपे-क्षाबुद्धिनाशः, अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकाल-त्वात् कार्य्यकारणसमानमावात् यदा तु द्वित्वाधाराव-यवकर्मापेक्षाबुद्ध्योर्यौगपद्यं तदा द्वाभ्यामाश्रयनाशापे-क्षाबुद्धिनाशाभ्यां द्वित्वनाशः, तद्यथा अवयवकर्मा-पेक्षाबुद्धी विभागोत्पत्ती संयोगनाशद्वित्वत्वसामान्यज्ञानेद्रव्यनाशापेक्षाबुद्धिनाशौ ताभ्यां द्वित्वनाशः प्रत्येकंसामर्थ्यग्रहात् इयञ्च प्रक्रिया ज्ञानयोर्बध्यघातक-त्वपक्षे परमुपपद्यते एव पक्षः प्रामाणिकः ।ननु द्वित्वत्रित्वादीनां सामग्रीसाम्ये कथं कार्य्यवै-लक्षण्यं, द्वाभ्यामेकत्वाभ्यां द्वित्वं, त्रिभिरेकत्वैस्त्रित्वमितिचेन्न एकत्वे द्वित्वाद्यभावात्, समवायिकारणगतमेवद्वित्वत्रित्वादिकं तन्त्रमिति चेन्न द्वित्वाद्युत्पत्तेः पूर्वंतत्र द्वित्वाद्यभावात् तत्रापि कारणचिन्ताया अनि-वारणात् अपेक्षाबुद्धावेकत्वेषु तादृशविशेषस्या-नुपलम्भवाधितत्वात् फलबलेन तत्कल्पने वा द्वित्वादिव्य-वहारोऽपि तत एवास्तु किं द्वित्वादिना, अदृष्ट-विशेषाद्विशेष इति चेदेवं सति द्वित्वारम्भिकयाऽपिसामम्या कदाचित्त्रित्वं चतुष्ट्वञ्चोत्पद्येतेत्यनियमप्रमङ्गःइति चेत् अत्रोच्यते प्रागभावविशेषाद्विशेषोपपत्तेः ।तुल्यया सामग्य्रा पाकजानां रूपरसगन्धस्पर्शानामिव ।प्रागभावोऽपि साधारण एवेति चेन्न स्वस्वप्रागभावस्यैवकार्य्यं प्रति कारणत्वावधारणात् यदा शुद्धयाऽपेक्षा-बुद्ध्या द्वित्वं द्वित्वसहितया त्रित्वमिति नेयम्, (अव्यवस्था) शतं पिपीलिकानां मया हतमित्यादौ, सम-वायिकारणाभावे द्वित्वं ताबन्नोत्पद्यते तथा गौण-स्तत्र संख्याव्यवहारोद्रष्टव्यः सेनावनादौ नियता-पेक्षाबुद्ध्यभावाद्बहुत्वमात्रमुत्पद्यते तु शतसहस्रा-दिसंख्येति श्रीधराचार्य्याः एवं सति शतसहस्रादि-कोटिकस्तत्र संशयो स्यात् स्याच्च महतीमहत्तरा सेनेति नैवमित्युदयनाचार्य्याः अत्रैवमा-लोचनीयं त्रित्वादिपरार्द्धपर्य्यन्ता संख्यैव बहुत्वम्, तद्भिन्नं वा संख्यान्तरम्, नाद्यः सेनादावपि शत-सहस्रादिसंख्योत्पत्तिनियमात्, द्वितीयः त्रित्वादि-विलक्षणस्य बहुत्वस्याननुभवात् तथा प्रतिनियतैक-त्वानालम्यनापेक्षाबुद्धिजनितशतादिसंख्यैव बहुत्वं शता-द्यभिव्यक्तिस्तु तत्र भवति तादृशव्यञ्जकाभावात् ।वयन्तु ब्रूमः त्रित्वादिसमानाधिकरणं संख्यान्तरमेवबहुत्वं त्रित्वादिजनकापेक्षाबुद्धिजन्यं प्रागभावभेदादेवमिद्यते कथमन्यथा बहवस्तावत् सन्ति शतं वा सहस्रंयेति विशिष्य जानीम इति यथैकद्रव्ये महत्त्वंदीर्घत्वञ्च तथैकत्रैवाधिकरणे त्रित्वादिकं बहुत्वञ्च, भवति हि शतं वा सहस्रं वा चूतफलान्यानया-नीति प्रश्रे बहवस्तावदानीयन्तां किं विशेषजिज्ञास-येति एवञ्च द्वित्वसहितापेक्षाबुद्ध्या त्रित्वं त्रित्व-सहितापेक्षाबुद्ध्या चतुष्ट्वमेवमुत्तरोत्तरम् बहुत्वोत्पत्तौतु नापेक्षाबुद्धौ पूर्वपूर्वसंख्याविशिष्टत्वनियमः, अतएवसेनावनादिषु बहुत्वमात्रमुत्पद्यते तु संख्यान्तरं संश-यस्त्वसत्कोटिकोऽपि भवत्येवेति”
Capeller
German
द्वित्व
m.
Zweiheit
Dual, Reduplication (g.).
द्वित्व u. द्विर्वचन
n.
—2. द्वि॑ष्
f.