| YouTube Channel

द्विगुः (dviguH)

 
Apte Hindi
Hindi
द्विगुः
पुं*
द्वि- गुः -
तत्पुरुष समास का एक भेद जिसमें पूर्वपद संख्यावाचक होता है।
Wordnet
Sanskrit
Synonyms:
द्विगुः
noun
समासस्य भेदविशेषः यस्य पूर्वपदं सङ्ख्यावाचकं भवति।
"सप्ताहः इति द्विगोः उदाहरणम्।"
शब्दकल्पद्रुमः
Sanskrit
द्विगुः,
पुं,
षट्समासान्तर्गतसमासविशेषः तुसंख्यापूर्व्वपदानां समासः वोपदेवेनास्य ग-संज्ञा कृता त्रिविधः तद्धितार्थः १समाहारः उत्तरपदपरश्च तद्धितार्था-ऽपि द्विविधः तद्धितप्रत्ययमात्रस्य अजादे-र्हसादेर्व्वा अर्थे विषये इत्येकः अपत्यार्थष्ण्या-दिकं त्यक्त्रा अजादेस्तद्धितस्यार्थे वाच्ये इत्यपरः ।तद्धितार्थविषयो यथा, द्वयोर्मात्रोरपत्यं द्वैमा-तुरः पञ्चानां नापितानामपत्यं पाञ्चनापितिः
तद्धितार्थवाच्यो यथा, पञ्चभिर्गोभिः क्रीतःपञ्चगुः
समहारो यथा, त्रयाणां सखीनां समाहारः त्रिसखम् समाहारे अदन्तानां स्त्रीत्वंपात्रादेस्तु क्लीवत्वम्
उत्तरपदपरो यथा, --पञ्च गावो धनं यस्य पञ्चगवधन इत्यादि ।इति मुग्धबोधटीकायां दुर्गादासः
(द्वौ द्बेवा गावौ यस्य इति विग्रहे गौणत्वे गोशब्दस्यह्रस्वः द्विगवस्वामिके, त्रि यथा, --“द्वन्दो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययीभावः ।तत् पुरुष कर्म्म धारय येनाहं स्यां बहुव्रीहिः
”इत्युद्भटः
)