| YouTube Channel

द्विःस्विन्न (dviHsvinna)

 
वाचस्पत्यम्
Sanskrit
द्वि(द्विः)स्विन्न
न०
द्विवारं स्विन्नं वृत्तौ सुजर्थे द्विशब्दः विसर्ग-युक्ते तु सुजन्तः द्विवारपक्वे तण्डुले (उसना चाउल)एकघारं धान्यावस्थायां तस्य स्विन्नता द्वितीयवारंतण्डुलावस्थायामिति द्विःस्विन्नत्वम् द्वि(द्विः)स्विन्नमन्नंपृथुकं शुद्धं देशविशेषके नात्यन्तशस्तं विप्राणांभोजने निवेदने भक्ष्यं तद्यतीनाञ्च विधवाब्रह्म-चारिणाम् ताम्बूलञ्च यथा ब्रह्मन्! तथैते वस्तुनीध्रुवम्” ब्रह्मवै०
पु०
ब्रह्मख० हस्तिनि शब्दर०