| YouTube Channel

द्वारावती (dvArAvatI)

 
शब्दसागरः
English
द्वारावती
f.
(-ती) Dwārakā: see द्वारवती, &c.
Yates
English
द्वारावती (ती) 3.
f.
Dwāraka.
Wilson
English
द्वारावती
f.
(-ती) Dvāraka: see द्वारवती, &c.
Monier Williams Cologne
English
द्वारा-वती
f.
=
°र-व्°,
VarP.
N.
of Bangkok,
Inscr.
Apte Hindi
Hindi
द्वारावती
स्त्री*
- -
द्वारका
L R Vaidya
English
dvArAvatI {% f. %} the same as द्वारका q.v.
शब्दकल्पद्रुमः
Sanskrit
द्वारावती,
स्त्री,
(द्वाराणि प्रशस्तबहुलप्रतीहाराःसन्त्यत्र द्वार + मतुप् मस्य वः निपातनात्पूर्व्वदीर्घश्च ।) द्वारका इति हेमचन्द्रः ४६
“अयोध्या मथुरा माया काशी काञ्ची अव-न्तिका ।पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः
एतास्तु पृथिवीमध्ये गण्यन्ते कदाचन ।पुरी द्वारावती विष्णोः पाञ्चजन्योपरिस्थिता
मुक्तिदा एताः सर्व्वाश्च एकत्र गणिताः सुरैः ।यानि यानि क्षेत्राणि काशीप्राप्तिकराणिषट्
”इति भूतशुद्धितन्त्रम्
वाचस्पत्यम्
Sanskrit
द्वार(रा)वती स्त्री द्वाराणि चतुर्वर्णमोक्षद्वाराणि प्रश-स्तान्यत्र मतुप् मस्य वः संज्ञात्वेन वा पूर्वपददीर्घः ।सवद्रोपान्तिके श्रीवासुदेवनिर्मिते पुरीभेदे तत्पुरीनिर्माणप्रकारस्थानादिकं हरिवं० विस्तरती वर्णितं दिङ्-मात्रमत्रोच्यते ।“आनूपं सिन्धुराजस्य प्रपेदुर्यदुपुङ्गवाः ते तत्ररमणीयेषु विषयेषु सुखप्रियाः मुसुदुर्यादवाः सर्वेदेवाः स्वर्गगता यथा पुरवास्तु विचिन्वन् कृष्ण-स्तु परवीरहा ददर्श विपुलं देशं सागरानूपशोभि-तम् वाहनानां हितञ्चैव सिकताताम्रमृत्तिकम् ।पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया सागरानिल-संवीजं सागराम्बुनिषेवितम् विषयं सिन्धुराजस्यशोभितं पुरलक्षणैः तत्र रैवतकोनाम पर्वतोनाति-दूरतः मन्दरोदारशिखरः सर्वतोऽभिविराजते ।तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् प्रभूत-पुरुषोपेतः सर्वरत्नसमाकुलः विहारभूमिस्तत्रैवतस्य राज्ञः सुनिर्मिता नाम्ना द्वारवती नाम स्वायताऽष्टापदोपमा केशवेन मतिस्तत्र पुर्य्यर्थे विनि-वेशिता निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ।तै रक्तसूर्य्ये दिवमे तत्र यादवपुङ्गवाः सेनापालाश्चसञ्चक्रुः स्कन्धावारनिवेशनम् ध्रुवाय तत्र न्यवसत्केशवः सह यादवैः देशे पुरनिवेशाय यदुप्रवरो विभुः तस्यास्तु विविधं नाम वास्तूनि चगदाग्रजः निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ।एवं द्वारावतीञ्चैव पुरीं प्राप्य सवान्धवाः” हरिवं०११४ अ० “इयं द्वारावती नाम पृथिव्यां निर्मितामया भविष्यति पुरी रम्या शक्रस्येवामरावती ।तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि चत्व-रान् राजमार्गांश्च समानन्तःपुराणि देवाइवात्र मोदन्तां वसन्तो विगतज्वराः बाधमाना रि-पूनुग्रानुग्रसेनपुरोगमाः गृह्यन्तां गृहवास्तूनि का-र्य्यन्तां त्रिकचत्वराः मीयन्तां राजमार्गाश्च प्राका-रस्य या गतिः प्रेष्यन्तां शिल्पिमुख्या वै नियुक्तावेश्मकर्मसु नियुज्यन्ताञ्च देशेषु प्रेष्यकर्मकराजनाः ।एवमुक्तास्तु यदवो गृहसंग्रहतत्पराः यथा-निवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् सूत्रहस्तास्ततो-मानं चक्रुर्यादवपुङ्गवाः पुण्येऽहनि महाराज!द्विजातीन् प्रतिपूज्य वास्तुदैवतकर्माणि विधि-नाऽकारयंस्ततः स्थपतीनथ गोविन्दस्तत्रोवाचमहामतिः अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।विभक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ते तथेतिमहाबाहुमुक्त्वा स्थपतयस्तदा दुर्गकर्मणि सम्भारानुप-लभ्य यथाविधि यथान्यायं निर्ममिरे द्वाराण्यायत-नानि स्थानानि विदधुस्तस्यां ब्रह्मादीनां यथा-क्रमम् अपामग्नेः सुरेशस्य वृषदोलूखलस्य ।चातुर्द्देवानि चत्वारि द्वाराणि विदधुश्च ते शुद्धाक्ष-मैन्द्रं भल्लाटं पुष्पदन्तं तथैव ते वेश्मसु युक्तेषुयादवेषु महात्मसु पुर्य्याः क्षिप्रं प्रवेशार्थं चिन्तयामासमाधवः तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ।पुर्य्याः सा वै प्रियकरी यदूनामभिवर्द्धिनी शिल्पि-मुख्यस्तु देवानां प्रजापतिसुतः प्रभुः विश्वकर्माखमत्या वै पुरीं संस्थापयिष्यति मनसा समनुध्यायतस्यागमनकारणात् त्रिदशाभिसुखः कृष्णो विविक्तेसमपद्यत तस्मिन्नेव ततः काले शिल्प्याचार्य्यो महा-मतिः विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ।यदीच्छेत् सागरः किञ्चिदुत्स्रष्टुमिह तोयराट् ।ततः स्वायतलक्षण्या पुरी स्यात् पुरुषोत्तम! एव-मुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः सागरं सरितांनाथमुवाच वदतां वरः समुद्र! दश द्वे योज-नानि जलाशये प्रतिसंह्रियतामात्मा यद्यस्ति मयिमान्यता अवकाशे त्वया दत्ते पुरीयं मामके बले ।पर्य्याप्तविषयारामा समग्रं विषहिष्यते ततः कृष्णस्यवचनं श्रुत्वा नदनदीपतिः समारुतेन योगेन उत्-ससर्ज्ज जलाशयम् विश्वकर्मा ततः प्रीतः पुर्य्याःसंदृश्य वास्तु तत् गीविन्दे चैव सम्मानं सागरः कृतवांस्तदा” हरिव० ११६ अ० ततो देवस्य लीलासंवरणा-नन्तरं तत्कलत्रादीनां ततोऽपगमने समुद्रेण तत्पुर्य्याःप्लावनं कृतम् तत्कथा भा० मौ० अ० “निर्यातेतु जने तस्मिन् सागरो मकरालयः द्वारकां रत्न-सम्पूर्णां जलेनाप्लावयत्तदा यद्यद्धि पुरुषव्याघ्रोभूमेस्तस्या व्यमुञ्चत तत्तत् संप्लावयामास सलिलेन ससागरः तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।तूर्णात्तूर्णतरं जग्मुरहो दैवमथाब्रुवन्” “काशीकाञ्ची मायाख्या त्वयोध्या द्वारवत्यपि मथुरा-ऽवन्तिका चैव सप्त पुर्य्योऽत्र मोक्षदाः श्रीशैलःमोक्षदः सर्वः केदारोऽपि ततोऽधिकः श्रीशैलाच्चापिकेदारात् प्रयागं मोक्षदं परम् प्रयागादपि तीर्था-ग्र्यादविमुक्तं विशिष्यते यथाऽविमुक्ते निर्वाणं तथा-न्यत्र कुत्रचित् अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि काशीं प्राप्य विमुच्येत नान्यथा तीर्थको-टिभिः” काशी० अ० निषिद्धमपि तप्तमुद्रादिधार-णञ्च तन्माहात्म्यकथनात् तत्र विहितं तन्नाम निर्व-चनञ्चोक्तं काशीख० अ०“सप्तरात्रमुषित्वा तु ययौ द्वारावतीं प्रति चतुर्णामपिवर्ण्णानां यत्र द्वाराणि सर्वतः अतो द्वारवती-त्युक्ता विद्वद्भितत्त्ववेदिभिः अस्थीन्यपि जन्तूनांयत्र चक्राङ्कितान्यहो किं चित्रं यत्र तत्र स्युःशङ्खचक्राङ्किताः करैः अन्तकः शिक्षयत्येवं निज-दूतान् मुहुर्मुहुः ते त्याज्या यैर्द्वारवत्या नामापि परि-गृह्यते श्रीखण्डे क्व आमोदः स्वर्णे वर्ण्णः क्वतादृशः तत् पावित्रं क्व वै तीर्थे, तद्गोपीचन्दने यथा ।दूताः! शृणुत यद्भालं गोपीचन्दनलाञ्छितम् ज्वल-दिन्धनवत् सोऽपि दूरे त्याज्यः प्रयत्नतः तुलस्यलङ्कृताये ये तुलसीनामजापकाः तुलसीवनमाला-ये ते त्याज्या दूरतोभटाः पवित्राणां सर्वेषांसुपवित्रा बलाधिका तुलां स्यति यतस्तस्मात्तुलसीतिनिरुच्यते युगे युगे द्वारवत्यारत्नानि परितोमूषन् ।अब्धीरत्नाकरोऽद्यापि लोकेषु परिगीयते द्वारवत्यांम्रियन्तोये जन्तवः कालचोदिताः चतुर्भुजाः स्युर्वैकुण्ठेते पीताम्बरधारिणः तत्रापि सन्तर्प्य पितॄन् सहदेवर्षिमानवान् तत्र तेषु तीर्थेषु सस्नौ सर्वेषु तन्त्रितः”दीर्घे द्वारावती तत्रार्थे “अयोध्या मथुरा माया काशीकाञ्ची अवन्तिका पुरी द्वारावती चैव सप्तैता मोक्ष-दायिकाः एतास्तु पृथिवीमध्ये गण्यन्ते कदाचन ।पुरी द्वारावती विष्णोः प्राञ्चजन्योपरिस्थिता मुक्तिदागणिता एताः सर्वाश्च मानिताः सुरैः यानि कानि चक्षेत्राणि काशीप्राप्तिकराणि षट्” इति भूतशुद्धितन्त्रम्