| YouTube Channel

द्वारणम् (dvAraNam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“द्व संवरणे”@} 2 ‘वृ वरणे’ इत्येके।
3 द्वारकः-रिका, द्वारकः-रिका, 4 दुदूर्षकः-र्षिका, 5 दाद्वरकः-रिका
द्वर्ता-त्री, द्वारयिता-त्री, दुदूर्षिता-त्री, दाद्वरिता-त्री
द्वरन्-न्ती, द्वारयन्-न्ती, दुदूर्षन्-न्ती
-- 6 द्वरिष्यन्-न्ती-ती, द्वारयिष्यन्-न्ती-ती
दुदूर्षिष्यन्-न्ती-ती
-- -- द्वारयमाणः, द्वारयिष्यमाणः, -- दाद्वर्यमाणः, दाद्वरिष्यमाणः
7 प्रद्वृत्-प्रद्वृतौ-प्रद्वृतः, 8 द्वाः-द्वारौ-द्वारः
-- -- द्वृतम्-तः-तवान्, द्वारितः, दुदूर्षितः, दाद्वरितः-तवान्
द्वरः, द्वारः, दुदूर्षुः, दाद्वरः
द्वर्तव्यम्, द्वारयितव्यम्, दुदूर्षितव्यम्, दाद्वरितव्यम्
द्वरणीयम्, द्वारणीयम्, दुदूर्षणीयम्, दाद्वरणीयम्
9 द्वार्यम्, द्वार्यम्, दुदूर्ष्यम्, दाद्वर्यम्
ईषद्द्वरः-दुर्द्वरः-सुद्वरः
-- -- -- 10 द्वर्यमाणः, द्वार्यमाणः, दुदूर्ष्यमाणः दाद्वर्यमाणः
11 द्वारः, द्वारः, दुदूर्षः, दाद्वरः
द्वर्तुम्, द्वारयितुम्, दुदूर्षितुम्, दाद्वरितुम्
द्वृतिः, द्वारणा, दुदूर्षा, दाद्वरा
द्वरणम्, द्वारणम्, द्वदूर्षणम्, दाद्वरणम्
द्वृत्वा, द्वारयित्वा, दुदूर्षित्वा, दाद्वरित्वा
उद्द्वृत्य, प्रद्वार्य, प्रदुदूर्ष्य, प्रदाद्वर्य
12 द्वारम् २, द्वृत्वा २, द्वारम् २, द्वारयित्वा २, दुदूर्षम् २, दुदूर्षित्वा २, दाद्वरम्
दाद्वरित्वा २।
प्रासङ्गिक्यः
01
=>
(८९०)
02
=>
(१-भ्वादिः-९३४। सक। अनि। पर।)
03
=>
[पृष्ठम्०७८७+ २६]
04
=>
[[१। सन्नन्ताण्ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्त्वे रपरत्वे, ‘राल्लोपः’ (६-४-२१) इति वकारस्य लोपे, ‘हलि च’ (८-२-७७) इति दीर्घे रूपमेवम्। सन्नन्ते सर्वत्रैवमेव प्रक्रिया ज्ञेया।]]
05
=>
[[२। ‘यङि च’ (७-४-३०) इति संयोगादित्वाद् गुणे, अभ्यासे, ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घे रूपम्। एबं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः।]]
07
=>
[[४। शुद्धाद्धातोः क्विपि, तुगागमे रूपमेवम्।]]
08
=>
[[५। ण्यन्तात् क्विपि, रेफस्य विसर्गे रूपम्।]]
09
=>
[[६। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यति रूपम्।]]
10
=>
[[७। ‘गुणोऽर्तिसंयोगाद्योः’ (७-४-२९) इति यकि गुणः।]]
11
=>
[[आ। ‘स्मार्यं शुभद्वारमुपासरामि त्वत्पादमृच्छामि मोहगर्तम्।’ धा। का। २। ३४।]]
12
=>
[पृष्ठम्०७८८+ २७]