| YouTube Channel

द्वारकाशिला (dvArakAzilA)

 
वाचस्पत्यम्
Sanskrit
द्वारकाशिला स्त्री द्वारकोद्भवा शिला एकादिचक्रयुक्तायांद्वारकोद्भवशिलायां शालग्रामशिलावत् तस्याः पूज्यतालक्षणं पूजनादौ माहात्म्यञ्च नानास्थानात् प्रदर्श्यतेपुराणसारे द्वारकाकार्त्तिकमाहात्म्ये “चक्रमेकंमध्यभागे श्वेतभागे खुरान्विता शिवनाभिरिति ख्याताभुक्तिमुक्तिफलप्रदा” खुरान्विता वीथियुक्ता ब्रह्माण्ड-पुराणे “कूर्म्माकृतिरधोषागे लिङ्गभागे खुरान्विता ।शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा” नृसिंह-पुराणे “कूर्मचक्रमधोभागे श्वेतभागे खुरान्विता ।शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा यवसात्रस्तु-गर्त्तः स्वाद् यबार्द्धं लिङ्गमुच्यते शिवनाभिरितिख्यातस्त्रिषु लोकेषु दुर्लभः” शिवनाभिलक्षणम् ।ब्रह्माण्डपुराणे “जटापाशी अघोरा सा गृहिभिर्यदि-पूजिता हेमवर्णजटायुक्ता हेमविन्दुसमन्विता मस्तके-गोखुरा तावदञ्जनाचलसन्निभा सद्योजाताभिधा श्रेष्ठापुत्रपौत्रधनप्रदा” इति सद्योजातलक्षणम् तत्रैव “शिरो-मध्ये रक्तवर्णा श्वेतचन्द्रजटायुता वामदेवाभिधा-श्रेष्ठा गृहिभिः पूजिता सदा” इति वामदेवलक्षणम् ।तत्रैव “किञ्चित्कपिलसंयुक्ता कृष्णनीलजटायुता ।पार्श्वरेखासमुपेता ऐशानीमुक्तिदा भवेत्” इति ईशान-लक्षणम् “सूर्य्यविद्युत्तमनिभा पार्श्वदेशे जटाशशी ।तत्पुम्षाभिधा सा स्यात् दुर्ल्लभा सर्वकामदा” इति तत्-पुरुषलक्षणम् “द्विलिङ्गो वा त्रिलीङ्गो वा चतुष्प-ञ्चादिलिङ्गवान् तापिञ्छकरकाकारो देवदेवः सदा-शिवः” इति सदाशिवलक्षणम् इत्यघोरादिपञ्चकलक्ष-णम् प्रयोगपारिजाते वराहपु० “द्विनाभिश्चक्ररूपा याभवेद्धरिहरात्मिका नाभौ लिङ्गेन युक्ता वा श्वेतभागे खुरान्विता शिवनाभिरिति ख्याता भुक्तिमुक्तिफ-लपदा वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् ।तप्याद्धरिहरक्षेत्रे पूजयेत् शङ्कराच्युतम् भवेच्छिला-शतैः शस्ता चतुर्वर्गफलप्रदा” तस्या माहात्म्यम्स्कन्दपुराणे “द्वाराचक्रशिला देवि! भद्रावाससमन्विता तत् पात्रसहितं यत् स्यात् तीर्थंद्वादशयोजनम् म्लेच्छदेशे शुचा वापि चक्राङ्को यत्रतिष्ठति योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे! ।तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः शतबाधा-विनिर्मुक्तो पुनः सोऽपि जायते चक्राङ्कितस्यसान्निध्ये यत्कर्म क्रियते नरैः स्नानं दानं तपोहोमः सर्वं भवति चाक्षयम् संवत्सरन्तु यत् पापंमनसा कर्मणा कृतम् तत्सर्वं नश्यते पुंसां सकृच्चक्राङ्कदर्शनात् ज्वरदाही विषञ्चैव अग्निचौरभयं तथा ।सर्वे ते प्रशमं यान्ति सकृच्चक्राङ्कमार्जनात् भूतप्रेत-पिशाचाश्च डाकिन्यश्च वसुन्धरे! सर्वे ते प्रलयं यान्तिपञ्चचक्रान्वितं न्यसेत् भक्त्या वा यदि वाऽभक्त्याचक्राङ्कं पूजयेन्नरः अपि चेत् सुदुराचारो मुच्यतेनात्र संशयः संवत्सरन्तु यः कुर्य्यात् पूजास्पर्शनदर्शनम् विना साङ्ख्येन योगेन मुच्यते नात्रसंशयः” द्वारकाशिलावर्णविशेषलक्षणम् पद्मपुराणे“कृष्णा मृत्युप्रदा नित्यं कपिला तु भयावहा औ-न्मत्त्यं कर्वुरा दद्यात् पीता धनविनाशिनी धूम्राभापुत्रनाशाय भग्ना भार्य्याधनापहा श्वेतास्तिलाःसुसंपूर्णौः सर्वकामार्थदायिकाः अच्छिद्रचक्रा सापूज्या दुःखदारिद्र्यनाशिनी वर्त्तुला चतुरस्रा चपूजिता सिद्धिदायिका सुखदा समचक्रा विषमादुःखदा मवेत् निषिद्धशिलापि तत्रैव “छिद्रामग्ना त्रिकोणा तथा विषमचक्रिका अर्द्धचन्द्रा-कतिर्या पूज्यास्ता भवन्ति हि” प्रयोगपारिजाते तुविशेषः “भिन्नश्चैवार्थनाशाय स्थूलो बुद्धिविनाशकः ।दीर्घश्चायुर्हरो ज्ञेयो रूक्ष ऋद्धिविनाशकृत् शुक्ल-वर्णा शुभा ज्ञेया दन्तचक्रा तथैव च” चक्रभेदे मूर्त्ति-भेदोऽग्निपुराणे उक्तो यथा “सुदर्शनस्त्वेकचक्रे लक्ष्मी-नारायणो द्वये अच्युतः स्यात्तत्त्रिकेण युतो देव-स्त्रिविक्रमः” जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः षट्-चक्रश्चैव प्रद्युम्नः संकर्षणश्च सप्तमिः पुरुषोत्तमश्चाष्ट-चक्रो नवव्यूहो नवात्मकः दशावतारो दशभिर्दशै-केनानिरुद्धकः द्वादशात्मा द्वादशभिरत ऊर्द्ध्वमनन्तकः” ।गरुडपुराणे तु चतुश्चक्रश्चतुर्भुज इति विशेषः चक्र-भेदेन विशेषोऽपि तत्रैव “एकचक्रशिला पूज्याभुक्तिमुक्तिफलप्रदा द्विचक्रश्चाच्युतो देवो देवेन्द्रत्वफलप्रदः श्रीप्रदो रिपुहन्ता चतुश्चक्रो जनार्दनः ।पूजयेद्भक्तिसंयुक्तः सुगन्घैः कुसमादिभिः पञ्चभिर्वासु-देवः स्यात् प्रभुश्चक्रैः सदार्चितः जन्ममृत्युभयात्त्राताभवेन्नैवात्र संशयः षड्भिश्चक्रैश्च प्रद्युम्नो लक्ष्मी कीर्त्ति-प्रदो भवेत् पूजितो भक्तिभावेन चक्रतीर्थशिलोद्भवः ।वलभद्रशिला ज्ञेया सप्तचक्राङ्किता खग! पूजित-स्तुष्यते देवः पुत्त्रपौत्त्रप्रदो भवेत् वाञ्छितं वसुभि-श्चक्रैर्ददाति पुरुषोत्तमः नवव्यूहो नवचक्रो दुर्लभंयत् सुरैरपि पूजितः केशवस्तस्य ददाति स्थानमुत्त-मम् राज्यदो दशभिश्चक्रैर्दशावतारसंज्ञकः दशा-वतारपूजा स्याच्चक्राङ्कस्यास्य पूजनात् एकादशभि-रैश्वर्य्यमधिकञ्च प्रयच्छति पूजितो भक्तिभावेन चक्र-तीर्थशिलोद्भवः तत्रैव प्राप्यते देवश्चक्रैर्द्वादशभि-श्चितः पूजितः सर्वकामानामनन्तफलदायकः द्वाद-शात्मा विज्ञेयो भुक्तिमुक्तिप्रदोऽर्च्चितः अत ऊर्द्धंपरात्मासौ सदा प्रीतिविवर्द्धनः पूजितः सर्वलोकात्माविष्णुलोकप्रदायकः इति चक्राङ्कितशिलाः कथिताःकुलनामतः” एकचक्रविषये विशेषस्तु प्रयोगपारि-जाते “एकचक्रे विशेषोऽस्ति सविशेषस्तथोच्यते शुक्ल-रक्तं तथा रक्तं द्विवर्णं बहुवर्णकम् यद्येकचक्रिणःस्युश्च तेषां संज्ञा भवेत् क्रमात् पुण्डरीकः प्रलम्बघ्नोरामो वैकुण्ठ एव विश्वेश्वर इति ब्रह्मन् तेषां पूजा-फलं शृणु मोक्षं मृत्यु विवादञ्च दारिद्र्यं पर-तन्त्रताम् ददाति पूजकस्यासो तस्मात्तां परिवर्जयेत्”