| YouTube Channel

द्वापरः (dvAparaH)

 
Apte
English
द्वापरः [dvāparḥ] रम् [ram], रम् [द्वाभ्यां सत्यत्रेतायुगाभ्यां परः पृषो˚ Tv.]
N.
of the third Yuga of the world
Ms.*
9.31
अष्टौ शत- सहस्राणि वर्षाणां मानुषाणि तु चतुःषष्टिः सहस्राणि वर्षाणां द्वापरं युगम् Matsya
P.
The side of a die marked with two points.
Doubt, suspense, uncertainty.
A kind of deity
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्
Mb.
* 18.5.21
N.*
13.37.
Apte 1890
English
द्वापरः
रं [द्वाभ्यां सत्यत्रेतयुगाभ्यां परः पृषो° Tv.] 1 N. of the third Yuga of the world
Ms. 9. 301.
2 The side of a die marked with two points.
3 Doubt, suspense, uncertainty.
Apte Hindi
Hindi
द्वापरः
पुं*
- द्वाभ्यां सत्यत्रेतायुगाभ्यां परः पृषो*- तारा*
विश्व का तृतीय युग
द्वापरः
पुं*
- द्वाभ्यां सत्यत्रेतायुगाभ्यां परः पृषो*- तारा*
पासे का वह पार्श्व जिस पर ’दो’ की संख्या अंकित है
द्वापरः
पुं*
- द्वाभ्यां सत्यत्रेतायुगाभ्यां परः पृषो*- तारा*
"संदेह, शशोपंज, अनिश्चितता"
Wordnet
Sanskrit
Synonyms:
संशयः, संशीतिः, सन्देहः, संदेहः, शङ्का, वितर्कः, आशङ्का, विकल्पः, भ्रान्तिः, विभ्रमः, द्वैधीभावः, अनुपन्यासः, विचिकित्सा, द्वापरः
noun
एकधर्म्मिकविरुद्धभावाभावप्रकारकं ज्ञानम्।
"रामस्य वचने मम संशयः अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: द्वापरः
Root: द्वापर
Gender: पुं
Number: all
अर्थः द्वापरयुगम्
Meaning(s):
Dwapara yuga
Shloka(s):
2|1|92|1 द्वापरे यज्ञियाग्नेयौ पुण्यो झर्झरकः कलिः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|92|1 द्वापरः (द्वापर) (पुं) Dwapara yuga द्वापरयुगम्
2|1|92|1 यज्ञियः (यज्ञिय) (पुं) Dwapara yuga द्वापरयुगम्
2|1|92|1 आग्नेयः (आग्नेय) (पुं) Dwapara yuga द्वापरयुगम्
Related word(s):
अवयव_अवयवीसंबन्धः मन्वन्तरम्
जातिः कालः
उपाधि समूहः
शब्दकल्पद्रुमः
Sanskrit
द्वापरः,
पुं,
(द्वयोर्विषययोः परस्तत्पर आसक्तःइत्यर्थः पृषोदरादित्वात् साधुः ।) सन्देहः ।(द्वौ सत्यत्रेतायुगौ परौ श्रेष्ठौ यस्मात् ।) युग-विशेषः इत्यमरः १६१
तद्युग-परिमाणं यथा, --“अंष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु ।चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम्
”८६४, ०००
तस्य धर्म्मो यथा, --“अत ऊर्द्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः ।तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते
द्वापरादौ प्रजानान्तु सिद्धिस्त्रेतायुगे तु या ।परिवृत्ते युगे तस्मिंस्ततः सा विप्रणश्यति
ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः ।लोभो भृतिर्बणिग्युद्धं तत्त्वानामविनिश्चयः
प्रध्वंसश्चव वर्णानां कर्म्मणाञ्च विपर्य्ययः ।यज्ञे वधः पशोर्दण्डो मानो दर्पः क्षमा बलम्
तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः ।आद्ये कृते धर्म्मोऽस्ति त्रेतायां प्रवर्त्तितः
द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः ।वर्णानां द्वापरे ध्वंसः संक्षीतन्ते तथाश्रमाः
द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतौ स्मृतौ ।द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते
अनिश्चयोऽधिगमनाद्धर्म्मतत्त्वं विद्यते ।धर्म्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते
परस्परविभिन्नैस्तैर्दृ ष्टीनां विभ्रमेण तु ।ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्राकुलं त्विदम्
एकं वेदं हि वै व्यासः संहृत्य तु पुनः पुनः ।संक्षेपादायुषश्चैव दृश्यते द्वापरे त्विह ।वेदश्चैकश्चतुर्द्धा तु व्यस्यते द्वापरादिषु
ऋषिपुत्त्रैः पुनर्भेदाद्भिद्यन्ते दृष्टिविभ्रमैः ।मन्त्रब्राह्मणविन्यासैः स्वरक्रमविपर्य्ययैः
संहिता ऋग्यजुःसाम्नां सहितास्तैः श्रुतर्षिभिः ।सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित् क्वचित्
ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव ।अन्ये तु प्रस्थितास्ते वै केचिन्न प्रत्यवस्थिताः
द्वापरेषु प्रवर्त्तन्ते भिन्नार्थैस्तैः सुदर्शनैः ।एवमाध्वर्य्यवं पूर्व्वमासीद्द्वैधं ततः पुनः
प्तामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम् ।आध्वर्य्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतम्
तथैवाथर्व्वणां साम्नां विकलैः स्वस्य संक्षयैः ।व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः
द्वापरे सन्निवृत्तास्ते वेदा नश्यन्ति वै कलौ ।तेषां विपर्य्ययोत्पन्ना भवन्ति द्वापरे पुनः
अवृष्टिमरणञ्चैव तथैव व्याध्युपद्रवाः ।वाङ्मनःकर्म्मभिर्दुःखैर्निर्वेदो जायते ततः ।निर्व्वेदाज्जायते तेषां दुःखं मोक्षविचारणा ।विचारणायां वैराग्यं दैराग्याद्दोषदर्शनम्
दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिश्च जायते ।तेषां मेधाविनां पूर्व्वमाद्ये स्वायम्भुवेऽन्तरे ।उत्पद्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः
आयुर्व्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य ।अर्थशास्तविकल्पाश्च हेतुशास्त्रविकल्पनम्
प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् ।स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक्
द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम् ।मनका कर्म्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति
द्बापरः सर्व्वभूतानां कायक्लेशपुरस्कृतः ।लोभो भृतिर्बणिग्युद्धन्तत्त्वानामविनिश्चयः
वेदशास्त्रप्रणयनं धर्म्माणां सङ्करस्तथा ।वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव
पूर्णे वर्षसहस्रे द्बे परमायुस्तदा नृणाम् ।निःशेषे द्वापरे तस्मिन् तस्य सन्ध्या तु पादतः
गुणहीनाश्च तिष्ठन्ति धर्म्मस्य द्वापरस्य तु ।तथैव सन्ध्यापादेव अंशस्तस्य प्रतिष्ठितः
”इति मत्स्यपुराणे १२० अध्यायः