| YouTube Channel

द्वादशाशन (dvAdazAzana)

 
वाचस्पत्यम्
Sanskrit
द्वादशाशन
न०
द्वादशविधमशनम् शाक० त० सुश्रुतोक्ते अधि-कारिभेदेन द्वादशविधे अशनभेदे यथोक्तं तत्र उत्तरतन्त्रे ।“अत ऊर्द्ध्वं द्वादशाशनप्रविमागान्वक्ष्यामः तत्रशीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्त-मात्राहीनदोषप्रशमनवृत्त्यर्थाः तृष्णोष्णमददाहार्त्तान्रक्तपित्तविषातुरान् मूर्च्छार्त्तान् स्त्रीषु क्षीणान्शीतै रन्नैरुपाचरेत् कफवातामयाविष्टान् विरिक्तान्स्नेहपायिनः प्रक्लिन्नदेहांश्च नरानुष्णै रन्नैरुपाचरेत् ।वातिकान् रूक्षदेहांश्च व्यायामोपहतांस्तथा व्यवा-यिनश्चापि नरान् स्निग्धै रन्नैरुपाचरेत् मेदसाभि-परीतांस्तु स्थूलान्मेहातुरानपि कफाभिपन्नदेहांश्चरूक्षै रन्नैरुपाचरेत् शुष्कदेहान् पिपासार्त्तान् दुर्ब-लानपि द्रवैः प्रक्लिन्नकायान् व्रणिनः शुष्कै ६-र्म्मेहिनमेव एककालं भवेद्देयो दुर्बलाग्नि-विवृद्धये समाग्नये तथाहारो देयः कालमथो-भयम् औषधद्वेषिणे देयस्तथौषधसमायुतः ।मन्दाग्नये रोगिणे मात्राहीनः १० प्रशस्यते यथा-र्थदत्तश्चाहारो दोषप्रशमनः ११ स्मृतः अतःपरन्तुस्वस्थानां वृत्त्यर्थं १२ सर्वमेव द्वादशान्नप्रविचारा-नेतानेव प्रचक्षते”