| YouTube Channel

द्वादशाङ्गी (dvAdazAGgI)

 
Monier Williams Cologne
English
द्वादशाङ्गी
f.
the collective Jaina sacred writings (consisting of 12 parts),
L.
Shabdartha Kaustubha
Kannada
द्वादशाङ्गी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜೈನಾಗಮದಲ್ಲಿ ಅಂಗಪ್ರವಿಷ್ಟವೆಂಬ ಒಂದು ಭೇದದ ೧೨ ಅಂಗಗಳು
निष्पत्तिः - > "ङीप्" (४-१-२१)
व्युत्पत्तिः - > द्वादशानामामङ्गानां समाहारः
अभिधानचिन्तामणिः
Sanskrit
--source--
आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक्
पञ्चमं भगवत्यङ्गं ज्ञातधर्मकथापि २४३
उपासकान्तकृदनुत्तरोपपातिकाद्दशाः
प्रश्नव्याकरणं चैव विपाकश्रुतमेव २४४
इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः
दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया २४५
-wordlist-
आचाराङ्ग (क्ली), सूत्रकृत (क्ली), स्थानाङ्ग (क्ली), समवायाङ्ग (क्ली), भगवत्यङ्ग (क्ली), ज्ञाताधर्मकथा (स्त्री), उपासकदशाः (स्त्रीब), अन्तकृद्दशाः (स्त्रीब), अनुत्तरोपपातिकदशाः (स्त्रीब), प्रश्नव्याकरण (क्ली), विपाकश्रुत (क्ली), दृष्टिवाद (क्ली), गणिपिटक (क्ली), द्वादशाङ्गी (स्त्री)
वाचस्पत्यम्
Sanskrit
द्वादशाङ्गी स्त्री द्वादशानामङ्गानां समाहारः ङीप् ।१ जिनाभिमते आचाराङ्गाद्येकादशोपाङ्गसहिते दृष्टिवा-दरूपे द्वादशानामङ्गानां समाहारे “आचाराङ्गं सूत्रकृतंस्थानाङ्गं समवाययुक् पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथापि उपासकाऽन्तकृदनुत्तरोपपातिकादश प्रश्नव्याकरणं चैव विपाकश्रुतमेव इत्ये-कादश सोपाङ्गान्यङ्गानि द्वादशं पुनः दृष्टिवादो द्वाद-शाङ्गी स्याद्गणिपिटकाह्वया” हेमच० दृष्टिवादश्च पञ्च-विधः दृष्टिवादशब्दे दर्शितः द्वादशाङ्गान्यस्य धूप-भेदे
पु०
“गुग्गुलुश्चन्दनं पत्रं कुष्ठञ्चागुरु कुङ्कुमम् ।जातीकोषञ्च कर्पूरं जटामांसी बालकम् त्वगुशीरञ्चधूपोऽसौ द्वादशाङ्गः प्रकीर्तितः” तन्त्रम्