| YouTube Channel

द्वादशसप्तमीव्रत (dvAdazasaptamIvrata)

 
Shabdartha Kaustubha
Kannada
द्वादशसप्तमीव्रत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮಾಘ ಮಾಸ ಮೊದಲುಗೊಂಡು ಪುಷ್ಯಮಾಸದವರೆ ಪ್ರತಿ ಶುಕ್ಲ ಸಪ್ತಮಿ ದಿನ ಮಾಡುವ ಒಂದು ಸೂರ್ಯವ್ರತ
विस्तारः - > "माघमासात् समारभ्य शुक्लपक्षे युधिष्ठिर सप्तम्यां कृतसङ्कल्पो वर्षमेकं व्रती भवेत् ॥" - भविष्यपु०
वाचस्पत्यम्
Sanskrit
द्वादशसप्तमीव्रत
न०
हेमा० व्र० भविष्यपुराणोक्ते माघादि-पौषान्तेषु द्वादशसु मासेषु सप्तम्योः कर्तव्ये सूर्यव्रतभेदे“अथान्यन्ते प्रवक्ष्यामि सप्तमीकल्पमुत्तमम् माघमा-सात् समारभ्य शुक्लपक्षे युधिष्ठिर! सप्तम्यां कृतस-ङ्कल्पो वर्षमेकं व्रती भवेत् वरुणं माघमासे तु भानुंसंपूज्य कारयेत् ब्रह्मकूर्चविधानेन यथा शक्त्या नृपो-त्तम! अष्टम्यां भोजयेद्विप्रान् तिलपिष्टगुडोदनैः ।अग्निष्टोमस्य यज्ञस्य फलं कृत्स्नमवाप्यते तपनं फाल्-गुने मासि सूर्यमित्यभिपूजयेत् वाजपेयस्य यज्ञस्यफलं प्राप्नोति दुर्लभम् सप्तम्यां चैत्रमासे तु वेदांशु-रिति पूजयेत् उञ्छाध्वरसमं पुण्य नरः प्राप्नोत्य-संशयम् वैशाखस्य तु सप्तम्यां धाता इत्यभिपूजयेत् ।पशुबन्धाध्वरं पुण्यं सम्यक् प्राप्नोति मानवः सप्तम्यांज्यैष्ठमासस्य इन्द्रमित्यभिपूजयेत् अश्वमेधफलावाप्ति-र्जायते नात्र संशयः तथाषाढस्य सप्तम्यां पूजयित्वादिवाकरम् बहुस्वर्णस्य यज्ञस्य फलं प्राप्नोति पुष्क-लम् श्रावणे मासि सप्तम्यामर्यमाणं प्रपूजयेत् ।सौत्रामणीफलं पार्थ! नरः प्राप्नोति भक्तितः रविंभाद्रपदे मासि सप्तम्यार्चयेच्छुचिः तुलापुरुषदानस्यगुडेन फलमाप्नुयात् अश्वयुक्शुक्लसप्तम्यां सवितारंपपूजयेत् गोसहस्रप्रदानस्य फलमाप्नोति भक्तितः ।कार्तिके शुक्लसप्तम्यां सप्ताश्वं नाम पूजयेत् योऽभ्यर्च-यति पुण्यात्मा पौण्डरीकं फलं लभेत् मार्गशीर्षेतथा भानुं पूजयित्वा विधानतः राजसूयस्य यज्ञस्यफलमाप्नोति वै नरः भास्करं पुष्पमासे तु पूजयित्वाविधानतः चतुर्णामपि वेदानां स्वाध्यायस्य फलंलभेत् तथैव कृष्णसप्तम्यां नामपूजादिकन्तु यो सोप-वासः प्रयत्नेन वर्षमेकं समाचरेत् पारिते नियमे चाथसूर्ययागं समारभेत्”