| YouTube Channel

द्वादशसंग्राम (dvAdazasaMgrAma)

 
वाचस्पत्यम्
Sanskrit
द्वादशसंग्राम द्वादशविधः संग्रामः देवानामसुरैः सहद्वादशविधे युद्धे ते संग्रामभेदा अग्निपु० २७५ अ०उक्ता यथा “देवासुराणा सङ्ग्रामा दायार्थं द्वादशा-ऽभवन् प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ।सङ्ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः तारकामय-सङ्ग्रामः षष्ठो ह्याजीवको रणः त्रैपुर श्चान्ध-कवधो नबमी वृत्रघातकः जितो १० हालाहल ११श्चाथ घोरः कोलाहलो १२ रणः हिरण्य-कशिपोश्चोरोवि दार्य्य नखैः पुरा नारसिंहो १देवपालः प्रह्लादं कृतवान् नृपम् देवासुरे वामनश्चछलित्वा बलिमूर्जितम् महेन्द्राय ददौ राज्यं पुरु-षोऽदितिसम्भवः वराहस्तु हिरण्याक्षं हत्वादेवानपालयत् उज्जहार भुवं मग्नां देवदेवैरभि-ष्टुतः मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासु-किम् सुरासुरैश्च मथितं देवेभ्यश्चामृतं ददौ तारका-मयसङ्ग्रामे तदा देवाश्च पालिताः निवार्येन्द्रं गुरून्देवान् दानवान् सोमवंशकृत् विश्वामित्रवशिष्ठात्रिक-वयश्च रणे सुरान् अपालयन्त निर्वार्य रागद्वेषादि-दानवान् पृघ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः ।ददाह त्रिपुरं देवपालको दैत्यमर्दनः गौरीं जिही-र्षुणा रुद्रमन्धकेनार्दितं हरिः अनुरक्तश्च रेवत्यांचक्रे चान्धासुरार्दनम् अपां फेनमयो भूत्वा देवासुर-रणे हरन् वृत्रं देवहरं विष्णुर्देवधर्मानपालयत् ।शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः अपा-लयत् सुरादींश्च दुष्टक्षत्रं निहत्य १० हालाहलं ११विषं दैत्यं निराकृत्य महेश्वरात् भयं निर्णाशयामासदेवानां मघुसूदनः देवासुरे रणे यश्च दैत्यः कोला-हलो जितः १२ पालिताश्च सुराः सर्वे विष्णुना धर्म-पालनात् राजानो राजपुत्राश्च मुनयो देवता हरिः ।यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे”