| YouTube Channel

द्वादशशुद्धि (dvAdazazuddhi)

 
वाचस्पत्यम्
Sanskrit
द्वादशशुद्धि स्त्री द्वादशगुणिता शुद्धिः तन्त्रसारोक्ते वैष्ण-वानां कायिकादिद्वादशशुद्धिभेदे “अथ द्वादशशुद्धिर्वै वैष्ण-वानामिहोच्यते गृहोपसर्पणञ्चैव तथा चागमनंहरेः भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः ।पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः करयोःसर्वशुद्धीनामियं शुद्धिर्विशिष्यते तन्नामकीर्त्तन-ञ्चैव गुणानामपि कीर्त्तनम् भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते तत्कथाश्रवणञ्चैव तस्योत्-सवनिरीक्षणम् श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगि-होच्यते पादोदकस्य निर्माल्यमालानामपि धार-णम् उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः ।आघ्राणङ्गन्घपुष्पादेनिर्माल्यस्य तपोधन! विशुद्धिःस्यादनन्तस्य घ्राणस्यापि विधीयते पत्रपुष्पादिकं यच्चकृष्णपादयुगार्पितम् तदेकं पावनं लोके तद्धि सर्वंविशोधयेत् ललाटे गदा कार्य्या मूर्घ्नि चापं शरां-स्तथा नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये ।शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि प्रयागेया गतिः प्रोक्ता सा गतिस्तस्य गौतम!”