| YouTube Channel

द्वादशवर्गी (dvAdazavargI)

 
वाचस्पत्यम्
Sanskrit
द्वादशवर्गी स्त्री द्वादशानां वर्गाणां समाहारः समा० द्वि०ङीप् नीलकण्ठताजकोक्ते वर्षकाले ग्रहाणां बल-साधने द्वादशमिते वर्गे सा च“क्षेत्रं होरा त्र्यब्धिपञ्चाङ्गसप्तवस्वङ्काशेशार्कभागाःसुधीभिः विज्ञातव्या लग्नसंस्थाः शुभानां वर्गाःश्रेष्ठाः पापवर्गा अनिष्टाः ओजे रवीन्द्वोः समइन्दुरव्योर्होरे गृहार्द्धप्रमिते विचिन्त्ये द्रेष्काणपाःस्वेषुनवर्क्षनाथास्तुर्यांशपाः स्वर्क्षजकेन्द्रनाथाः ओजर्क्षेपञ्चमांशेशाः कुजार्कीज्यज्ञभार्गवाः समभे व्यत्ययाज्ज्ञेया द्वादशांशाः स्वभात् स्मृताः लवीकृतो व्योम-चरोऽङ्गशैलवस्वङ्कदिग्रुद्रगुणः खरामैः भक्तो गता-स्तर्कनगाष्टनन्ददिग्रुद्रभागाः कुयुतात् क्रियात् स्युः ।एवं द्वादशवर्गी स्यात् ग्रहाणां बलसिद्धये स्वोच्च-“मत्रशुभाः श्रेष्ठाः नीचारिक्रूरिणोऽशुभाः एवंग्रहाणां शुभपापवर्गपङ्क्तिद्वयं वीक्ष्य शुभाधि-कत्वे दशाफलं भावफल वाच्यं शुभं त्वनिष्टंत्वशुभाधिकत्वे क्रूरोऽपि सौम्याधिकवर्गशाली शुभो-ऽतिसौम्यः शुभखेचरश्चेत् सौम्योऽपि पापा-धिकवर्गयोगान्नेष्टोऽतिनिन्द्यः खलु पापखेटः राशी-शमित्रोच्चरिपुक्रमेण चिन्त्यं तनोरप्यनयैव रीत्या ।भावेषु सर्वेष्वपि वर्गचक्रं विलोक्य तत्तत् फलमूहनी-यम्” इति द्वादशवर्गी