| YouTube Channel

द्वादशराजमण्डल (dvAdazarAjamaNDala)

 
वाचस्पत्यम्
Sanskrit
द्वादशराजमण्डल
न०
द्वादशानां राज्ञां मण्डलम् उत्तर-पदद्विगुः द्वादशानां राज्ञां मण्डले तच्च अग्निपु० २३९ अ० उक्तं यथा“राम उवाच मण्डलं चिन्तयेत् मुख्यं राजाद्वादशराजकम् अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् ।तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः पाष्णि-ग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम् आसाराव-नयोश्चैवं विजिगीषोश्च मण्डलम् अरेश्च विजिगीषोश्चमध्यमो भूम्यनन्तरः अनुग्रहे संहतयोर्न्निग्रहेव्यस्तयोः प्रभुः मण्डलाद्बहिरेतेषामुदासीनो बला-धिकः अनुग्रहे संहतानां व्यस्तानां बधे प्रभुः”