| YouTube Channel

द्वादशयात्रा (dvAdazayAtrA)

 
वाचस्पत्यम्
Sanskrit
द्वादशयात्रा स्त्री द्वादशसु मासेषु द्वादशविधा यात्रा ।यात्रातत्त्वे स्कन्दपुराणोक्ते मासभेदे देवोत्सवे यात्राभेदेताश्च तत्र दर्शिता यथा“इन्द्रद्युम्न उवाच वैशाखादिषु मासेषु यात्रापूजाविधिंमुने! श्रोतुमिच्छामि देवेशे यथावद्वक्तुमर्हसि ।जैमिनिरुवाच वैशाखादिषु भासेषु देवदेवम्य शार्ङ्गिणः ।या या द्वादश यात्राः स्युस्ता हि वक्ष्यामि ते शृणु ।वैशाखे चान्दनी यात्रा ज्यैष्ठे स्नापन्युदीरिता आ-षाढे रथयात्रा स्यात् श्रावणे शयनी तथा भाद्रेदक्षिणपार्श्वी सा आश्विने वामपार्श्विका उत्थानीकार्तिके मासि छादनी मार्गशीर्षके पौषे पुष्याभिषेकःस्यान्माघे शाल्योदनी तथा फाल्गुने दोलयात्रा स्यात्चैत्रे मदनभञ्जिका एकैका मुक्तिदा सर्वा धर्मकामार्थ-साधनाः” तद्विधिस्तु तत्रैव दृश्यः