| YouTube Channel

द्वादशमासकर्म्मन् (dvAdazamAsakarmman)

 
वाचस्पत्यम्
Sanskrit
द्वादशमासकर्म्मन्
न०
द्वादशसु मासेषु कर्तव्यं कर्म विष्णुस०उक्ते मार्गादिमासेषु तिथिभेदे दानहोमादिकर्मभेदे यथा“मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरःसंयुक्तायां चूर्णितलबणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणायप्रदापयेत् अनेन कर्मणा रूपसौभाग्यवानभिजायते ।पोषी चेत् पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्त्तित-शरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधीभिः सर्व-गन्धैः सर्ववीजैश्च स्नाती घृतेन भगवन्तं वासुदेवं स्नाप-यित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिश्चाभ्यर्च्य वैष्णवैःशाक्रैर्वाहस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेनब्राह्मणान् स्वस्ति वाचयेत् वासोयुगं कर्त्रे दद्यात् ।अनेन कर्मणा पुष्यते माघी मघायुता चेत्तस्यां तिलैःश्राद्धं कृत्वा पूतोमवति फाल्गुनी फल्गुनीयुताचेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनंनिवेद्य भार्य्यां मनोज्ञां रूपवतीं द्रविणवतीञ्चाप्नोति ।नार्यपि भर्त्तारम् चैत्री चित्रायुता स्यात्तस्यां चित्रवस्त्र-प्रदानेन सौभाग्यमाप्नोति वैशाखी विशाखायुताचेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः सन्तर्प्य धर्म-राजानं प्रीणयित्वा पापेभ्यः पूतोभवति ज्यैष्ठीज्येष्ठायुता चेत्तस्यां छत्रीपानंहप्रदानेन गवामाधिपत्यंप्राप्नोति आषाद्यामाषाढायुक्तायामन्नपानदानेन तदे-वाक्षव्यमाप्नोति श्रावण्यां श्रवणयुक्ताया जलधेनुंसान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति प्रौष्ठ-पद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो-भवति आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णंभाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति ।कार्त्तिकी कृत्तिकायुता चेत्तस्यां सितमुक्षाणमन्यवर्णं वाशशाङ्कोदये “सर्वशस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणायदत्त्वा कान्तारभयं नश्यति वैशाखशुक्लतृतीयायामुपो-षितोऽक्षतैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा सर्व-पापेभ्यः पूतोभवति यच्च तस्मिन्नहनि प्रयच्छति तद-क्षय्यमाप्नोति पौष्यां समतीतायां कृष्णपक्षद्वादश्यांसोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेवम-भ्यर्च्य तानेव हुत्त्वा दत्त्वा भुक्त्वा पापेभ्यः पूतोभवति ।माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणंप्राप्य वासुदेवाग्रतोमहावर्त्तिद्वयेन दीपद्वयं दद्यात् ।दक्षिणपार्श्वे महारजतरक्तेन समग्रेण वाससा वृततुला-मष्टाधिकां दत्त्वा वामपार्श्वे तिलतैलतुलां साष्टां दत्त्वाश्वेतेन सनग्रेण वाससा एतत्कृत्वा कृतकृत्योयस्मिन्राष्ट्रेऽभिजायते यस्मिन् देशे यस्मिन् कुले तत्रोज्ज्वलो-भवति आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतंप्रदद्यादश्विनौ प्रीणयित्वा रूपभाग्भवति तस्मिन्नेवमासि प्रत्यहं गोरसैर्ब्राह्मणान् भोजयित्वा राज्यभाग्-भवति प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतंरेवतीप्रीत्यै परमान्नं ब्राह्मणान् भोजयित्वा रेवतींप्रीणयित्वा रूपभाग्भवति माघे मासेऽग्निं प्रत्यहंतिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान् भोजयित्वादीप्ताग्निर्भवति सर्वां चतुर्दशीं नदीजले स्नात्वा धर्म-राजानं पूजयित्वा सर्वपापेभ्यः पूतोभवति यदिच्छेद्वि-पुलान् भोगान् चन्द्रसूर्यग्रहोपमान् प्रातःस्नायी भवे-न्नित्यं द्वौ मासौ माघफाल्गुनौ” कृत्यतत्त्वे दर्शितानिअन्यानि मासभेदकार्य्याणि दृश्यानि