| YouTube Channel

द्वादशभाव (dvAdazabhAva)

 
Monier Williams Cologne
English
द्वा-दश—भाव
m.
N.
of wk.
Shabdartha Kaustubha
Kannada
द्वादशभाव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜ್ಯೋತಿಃ ಶಾಸ್ತ್ರದಲ್ಲಿ ಹೇಳಿರುವ ಜನನಕಾಲದ ಲಗ್ನ ಮೊದಲಾದ ೧೨ ಭಾವಗಳು
Aufrecht Catalogus Catalogorum
English
द्वादशभाव jy. Burnell 80^a.
--by Jaimini. Oppert 362. 3566. II, 1455. 1628.
7596.
द्वादशभाव jy. Gov. Or. Libr. Madras 38.
वाचस्पत्यम्
Sanskrit
द्वादशभाव
पु०
द्वादशगुणितो भावः ज्यो० उक्तेषु तन्वादिषुद्वादशसु भावेषु तदानयनाटि तत्रस्थितग्रहफलञ्चनी० ता० उक्तं यथा “पूर्वं नतं स्याद्दिनरात्रिखण्डंदिवानिशोरिष्टघटीविहीनम् दिवानिशोरिष्टघटीषुशुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात् तत्काले साय-नार्कस्य भुक्तभोग्याऽंशसंगुणात् स्वोदयात् खाग्निलब्धंयत् भुक्तं भोग्यं रवेस्त्यजेत् इष्टनाडीपलेभ्यश्च गत-गम्यान्निजोदयात् शेषं खत्र्याहतं भक्तमशुद्धेन लवा-दिकम् अशुद्धशुद्धभे हीनयुक् तनुर्व्ययनांशकम् ।एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात् ।पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत् सषड्भेलग्नखे जायातुर्य्यौ लग्नोनतुर्य्यतः षष्ठांशयुक् तनुःसन्धिरग्रे षष्ठांशयोजनात् त्रयः ससन्धयोभावाःषष्ठांशेनैकयुक सुखात् अग्रे त्रयः षडेवं ते भार्द्ध-युक्ताः परेऽपि षट् खेटे भावसमे पूर्ण्णं फलं सन्धिसमेतु खम् हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वापरे फलम् ।मुक्तं भोग्यं स्वेष्टकालान्न शुद्ध्येत् त्रिंशन्निघ्नाद्भोदयाप्तंलवाद्यम् हीनं युक्तं भास्करे तत्तनुः स्याद्रात्रौलग्नं भार्द्धयुक्ताद्रवेस्तु खेटे सन्घिद्वयान्तःस्थे फलंतद्भावजं भवेत् हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वा-परे फलम् ग्रहसन्ध्यन्तरं कार्य्यं विंशत्या गुणितंभवेत् भावसन्ध्यन्तरेणाप्तं फलं विंशोपकाः स्मृताः” ।अयमर्थः मेषादिराशीनामुदयकालोलग्नं तस्य चत्रिंशदंशरूपतया जन्मकाले मेषादीनां यतमोऽंशो गतःतदारभ्य तदुत्तरराशेस्ततोर्वाचीनाशान्तः तनुभावः एवंधनभावादि एवं तन्वादिद्वादशभावास्तेषां सन्धयोऽपि तथैवज्ञेयाः राशिमात्रगणनया फलं स्थूलं भावगणनया तुसूक्ष्मं फलादिकं भवतीति ज्ञेयम् ते तनुभावः, धनरावः, सहजभावः, बन्धुभावः, पुत्रभावः, रिपुभावः, कलत्रभावः, मृत्युभावः, धर्मभावः, कर्मभावः, आयभावः, व्यवभावश्चेति द्वादश तेषां सन्धयश्च द्वादशेत्यवधेयम्