| YouTube Channel

द्वादशप्रसृत (dvAdazaprasRta)

 
वाचस्पत्यम्
Sanskrit
द्वादशप्रसृत
त्रि०
द्वादश प्रसृतयः सन्त्यत्र अच् द्वादशप्रसृ-तियुक्ते सुश्रुतोक्ते वस्तिभेदे यथा “दत्त्वादौ सैन्धवस्याक्षंमधुनः प्रसृतिद्वयम् विनिर्मथ्य ततो दद्यात्स्नेहस्यप्रसृतित्रयम् एकीभूते ततः स्नेहे कल्कस्य प्रसृतिंक्षिपेत् संमूर्च्छिते कषायन्तु चतुःप्रसृतिसम्पितम् ।वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् एवं प्रकल्पितोवस्तिर्द्वादशप्रसृतो भवेत् ज्येष्ठायाः खलु मात्रायाःप्रमाणमिदमीरितम् अपह्रासे भिषक्कुर्य्यात्तद्वत्प्रसृ-तिहापनम् यथावयो निरूहाणां कल्पनेयमुदाहृता ।सैभ्रयादिद्रवान्तानां सिद्धिकामैर्मिषग्वरैः”