| YouTube Channel

द्वादशपत्रकं (dvAdazapatrakaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्वादशपत्रकं,
क्ली,
(द्वादश अक्षराणि पत्राणि इवयस्य ।) योगविशेषः यथा, --“पितामहोऽपि तं पुत्त्रं साध्यं सद्विनये रतम् ।सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम्
शिखासंस्थन्तु ओँकारं मेषोऽस्य शिरसि स्थितः ।मासो वैशाखनामा प्रथमं पत्रकं स्मृतम्
नकारः शिरसि प्रोक्तो वृषोऽस्य शिरसि स्थितः ।ज्यैष्ठमासश्च तत् पत्रं द्वितीयं परिकीर्त्तितम्
मोकारो भुजयोर्युग्मं मिथुनं तत्र संस्थितःम्मास आषाढनामा तृतीयं पत्रकं स्मृतम्
भकारो नेत्रयुगलं कर्क्कटस्तत्र संस्थितः ।मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम्
गकारो हृदयं प्रोक्तं सिंहो वसति तत्र ।मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् ।वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता ।मासश्चाश्वयुजो नाम षष्ठं तत्पत्रकं स्मृतम्
तेकारमन्त्रग्रामश्च तुलाराशिकृताश्रयः ।मासश्च कार्त्तिको नाम सप्तमं पत्रकं स्मृतम्
वाकारो नाभिसंयुक्तः स्थितस्तत्र वृश्चिकः ।मासो मार्गशिरो नाम त्वष्टकं पत्रकं स्मृतम्
सुकारो जघनः प्रोक्तस्तत्रस्थश्च धनुर्धरः ।पुष्येति गदितो मासो नवमं परिकीर्त्तितम्
देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः ।माघो निगदितो मासः पत्रकं दशमं स्मृतम्
वाकारो जानुयुगलं कुम्भस्तत्रापि संस्थितः ।पत्रकं फाल्गुनः प्रोक्तं तदेकादशमुत्तमम्
पादौ यकारो मीनो हि चैत्रे वसते मुने ! ।इदन्तु द्बादशं प्रोक्तं पत्रं वै केशवस्य हि
द्वादशारन्तथा चक्रं यन्नाभिद्विभुजन्तथा ।त्रिव्यूहन्त्वेकमूर्त्तिश्च तथोक्तः परमेश्वरः
एतत्तवोक्तं देवस्य रूपं द्वादशपत्रकम् ।यस्मिन् ज्ञाते मुनिश्रेष्ठ ! भूयो मरणं भवेत्
”इति वामनपुराणेऽष्टपञ्चाशत्तमोऽध्यायः