| YouTube Channel

द्वादशपत्र (dvAdazapatra)

 
वाचस्पत्यम्
Sanskrit
द्वादशपत्र
न०
द्वादशाक्षराणि पत्राणीव यस्य “वैशाखादि-रूपतया कल्पित द्वादशाक्षरयुक्ते भगवतो मन्त्रभेदे चमन्त्रः नमो भगवते वासुदेवाय” यथोक्तं बामनपु० “पितामहोऽपि तं पुत्रं साध्यं सद्विनये रतम् सनत्-कुमारं प्रोवाच योगं द्वादशपत्रकम् शिखासंज्ञस्तुओंकारो मेषोऽस्य शिरसि स्थितः मासो वैशाखनामाच प्रथमं पत्रकं स्मृतम् नकारः शिरसि प्रोक्तो वृषो-सस्य शिरसि स्थितः ज्यैष्ठमासश्चन्तत्पत्रं द्वितीयं परिकी-र्तितम् मोकारो भुजयोर्युग्मं मिथुनं तत्र संस्थितम् ।मास आषाड्नामा तृतीयं प्यत्रकं स्मृतम् भकारंनेत्रयुगलं कर्कटस्तत्र संस्थितः मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् कारं दयं प्रोक्तं सिंहो ब-सति तत्र गासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकंस्मृतम् वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता ।मासश्चाश्वयुजो नाम षष्ठं तत्पत्रकं स्मृतम् तेकार-मन्त्रग्रामश्च तुलाराशिकृताश्रयः मासश्च कार्तिकोनाम सप्तमं पत्रकं स्मृतम् वाकारं नाभिसंयुक्तं स्थितंतत्र वृश्चिकः मासो मार्गशिरा नाम त्वष्टकं पत्रकंस्मृतम् सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः पुष्येतिगदितो मासो नवमं परिकीर्त्तितम् देकारश्चोरुयुगलंमकरस्तत्र संस्थितः माघो निगदितो मासः पत्रकंदशमं स्मृतम् बाकारो जानुयुगलं कुम्भस्तत्रापि सं-स्थितः पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम् ।पादौ अकारो मीनो हि मैत्रे वसेत् मुने! ।इदन्तु द्वादशं प्रौक्तं पत्रं वै केशवस्य हि द्वादशार-न्यथा चक्रं यन्नाभि द्विभुजन्तथा त्रिव्यूहस्त्वेकमूर्त्तिश्चतथोक्तः परमेश्वरः एतत्तवोक्तं देवस्य रूपं द्वादशप-त्रकम् यस्मिन् ज्ञाते मुनिश्रेष्ठ! भूयो मरणं भवेत्”