द्वादश (dvAdaza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishद्वादश - dvAdaza - - twelfth
द्वादशक - dvAdazaka - - the twelfth
अश्वद्वादश - azvadvAdaza - - a horse as the twelfth
अन्त्य - antya - - twelfth sign of the zodiac
सारस्वत - sArasvata - - twelfth kalpa or day of brahmA
श्रावणद्वादशी - zrAvaNadvAdazI - - twelfth day of the month zrAvaNa
राशि - rAzi - - one-twelfth part of the ecliptic
अरण्यद्वादसि - araNyadvAdasi - - twelfth day of the month mArgazIrSa
ऋतधामन् - RtadhAman - - name of indra in the twelfth manvantara
अमम - amama - - twelfth jaina saint of a future utsarpiNI
अर्कांश - arkAMza - - digit or the twelfth part of the sun's disc
कृष्णद्वादशी - kRSNadvAdazI - - twelfth day in the dark half of the month aSADha
कूर्मद्वादशी - kUrmadvAdazI - - twelfth day in the light half of the month pauSa
अखण्ड - akhaNDa - - twelfth day of the first half of the month mArgazIrSa
विभूतिद्वादशी - vibhUtidvAdazI - - vrata or religious observance on a particular twelfth day
द्वादश dvAdaza increased by 12
द्वादश dvAdaza forming 12 with
द्वादश dvAdaza consisting of 12
द्वादश dvAdaza 12 fold
द्वादश dvAdaza twelfth
द्वादश dvAdaza collection or aggregate of 12
द्वादश dvAdaza num. twelve
Monier Williams Cologne
EnglishMacdonell
EnglishBenfey
EnglishShabdartha Kaustubha
Kannadaद्वादश
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹನ್ನೆರಡನೆಯ
निष्पत्तिः - > "डट्" (५-२-४८)
व्युत्पत्तिः - > द्वादशानां पूरणः
Lanman
EnglishWordnet
Sanskrit द्वादश
द्व्यधिकं दश।
"षड् अधिकं षट् द्वादश भवन्ति।"
द्वादश, सूर्य, मास, राशि, संक्रान्ति, गुहबाहु, सारिकोष्ठ, गुहनेत्र, राजमण्डल
द्व्याधिका दश।
"नौकायां द्वादशाः पुरुषाः सन्ति।"
Sanskrit Tibetan
Tibetanbcu gnyis
१) द्वादश २) द्वादशक ३)
bcu gnyis po
द्वादश
Mahabharata
EnglishDvādaśa = Śiva (1000 names^2).
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritद्वादश, [न्] त्रि, (द्व्यधिका दश । “द्व्यष्टन इति ।”६ । ३ । ४७ । इति आत्वम् ।) द्व्यधिका दश । १२वार इति भाषा । द्वादशसंख्या तत्संख्येयाश्च ।अयं नित्यबहुवचनान्तः । त्रिलिङ्गे समानरूपः ।इति व्याकरणम् ॥
द्वादशवाचकानि यथा ।सूर्य्यः १ मासः २ राशिः ३ संक्रान्तिः ४ गुह-बाहुः ५ सारिकोष्ठः ६ गुहनेत्रम् ७ राज-मण्डलम् ८ । इति कविकल्पलता ॥
द्वादशः, त्रि, (द्वादशानां पूरणः । “तस्य पूरणेडट् ।” ५ । २ । ४८ । इति डट् ।) द्वादशानां पूरणः ।इति व्याकरणम् ॥
वारै इति भाषा । (यथा, मनुः ।“गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्योपनायनम् ।गर्भादेकादशे राज्ञो गर्भाच्च द्बादशे विशः ॥
”महादेवः । यथा, महाभारते । १३ । १७ । ९३ ।“द्वादशस्त्राशनश्चाद्यो यज्ञो यज्ञसमाहितः ॥
”)
वाचस्पत्यम्
Sanskritद्वादश द्वादशानां पूरणः द्वादशन् + उट् । द्वादशसंख्यापूरणेस्त्रियां ङीप् । सा च द्वादश्याः चन्द्रकलायाः सूर्यकिरण-प्रवेशनिर्गमयोग्यायां क्रियारूपायां तद्पलक्षित कालरू-पायां वा तिथौ तस्यां व्रतकालनिर्णयः कालमा० उक्तो यथा“अथ द्वादशी निर्णीयते । सा च युग्मादिशास्त्रेण पूर्व-विद्धा ग्राह्या । स्कन्दपुराणेऽपि “द्वादशी च प्रकर्त्तव्याएकादश्या युता विभो! । सदा कार्य्या च बिद्वद्भिर्विष्णुभक्तैश्च मानवैः” इति । उत्तरविद्धां प्रतिषेधति वृहद्व-सिष्ठः । “द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी ।चतुर्द्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी” इति । नन्वेवंसत्यमेकादश्युपवासो द्वादश्युपवासश्चेत्युभयमेकस्मिन्दिनेप्राप्नोति सत्यम् तथापि चोभयस्यान्योऽन्यं विरोधा-भावात् सहैवानुष्ठानं भविष्यति । नन्वेकं व्रतमसमाप्यव्रतान्तरमनुष्ठातुमशक्यम् । असमाप्ते व्रते पूर्वे नैव कु-र्याद्व्रतान्तरम्” इति शास्त्रात् मैवम् इदं हि शास्त्र-मेकव्रतस्य मध्ये व्रतान्तरोपक्रमं निषेधति प्रकृते तुव्रतद्वयस्यापि सहैवीपक्रम इति तन्त्रेणानुष्ठानं भवि-ष्यति । नन्वस्त्वेवं खण्डतिथौ, सम्पूर्णतिथौ त्वेकादशीद्वादग्यु पवासौ द्वौ नैरन्तर्येण प्राप्नुतः । तत्र पारण-मन्तरेण प्रथमोपवासस्यासमाप्तत्वात् । द्वितीयोपवासस्यप्रक्रमो न सम्भवतीति चेत् मैवम् अद्भिः पारणं कृत्वाद्वितीयोपवासस्य प्रक्रमयितुं । शक्यत्वात् । तादृशं तुपारणमशितानशितोभयात्मकम् । तत्राशितरूपत्वात्पूर्वोपवासं परिसमापयति । अनशितरूपत्वेनोत्तरोप-वासं न विहन्ति । एतच्च द्व्यात्मकत्वं दर्शपूर्णमासप्रक-रणे याजमानव्राह्मणे श्रूयते “यदानश्ननुपवसेत्क्षौधुकःस्याद्यदश्नीयात् रुद्रोस्य पशूनभिमन्येतापोऽश्नातितन्नैवाशितं न क्षौधुको भवति नास्य रुद्रः पशृनभिम-न्यते” इति । तस्मादुदकपारणेनोपवासद्वयनिर्वाहः ।एतच्च सर्वतिथिसाधारणम् । प्रकृते ह्येकादशीद्वादश्योर्दै-वतैक्यादुदकपारणमन्तरेणापि न कश्चिद्दोषः । अतएवस्मर्यते “एकादशीमुपोष्यैव द्वादशीं समुपीषयेत् ।न तत्र विधिलोपः स्यादुभयोर्दैवतं हरिः” इति ।उपवासद्वयाशक्तो केवलद्वादश्युपवासेनोभयोः फलंसिध्यति तथा च स्मृतिः “एवमेकादशीं मुक्त्वाद्वादशीं समुपोषयेत् । पूर्वोपवासजं पुण्यं सर्वं प्राप्तो-त्यसंशयम्” इति । द्वादश्यां तु काम्योपवासो मार्कण्डे-येन दर्शितः “द्वादश्यामुपवासेन सिद्धार्था मूप! सर्वशः ।चक्रवर्तित्वमतुलं संप्राप्ता अतुलाः श्रियः” इति ।अथाष्टौ महाद्वादश्यः, शुद्धैकादशीयुता द्वादशी उन्मी-लिनोसंज्ञा १ द्वादश्येव शुद्धाधिका वर्द्धते चेत् सा वञ्जु-ली २ वासरत्रयस्पर्शिनी त्रिस्पृशा ३ अग्रे पर्वणः सम्पू-र्णाधिकत्वे पक्षवर्द्धिनी ४ । जयादयश्चतस्र इत्यष्टौ निर्ण०सि० उक्ता जयादिकाश्चतस्रश्च हेमा० व्र० उक्ता यथा“जया १ च विजया २ चैव जयन्ती ३ पापनाशिनी ४ । सर्व-पापहरा चैषा कर्तव्या फलकाङ्क्षिभिः । एकादश्यांशुक्लपक्षे यदा ऋक्षं पुनर्वसुः । सा नाम्ना च जया १ख्याता तिथोनामुत्तमा तिथिः । समुपोष्य व्रती पापात्मुच्यते नात्र संशयः । अग्निष्टोमस्य यज्ञस्य फलमाप्नोतिमानवः १ । यदा शुक्ले तु द्वादश्यां नक्षत्रं श्रवणं भवेत् ।विजया २ सा तथा प्रोक्ता तिथीनामुत्तमा तिथिः । तस्यांस्वातः सर्वतीर्थे स्नातो भवति मानवः । दानं सहस्र-गुणितं तथा चैव पयोव्रतम् । होमजपोववासैश्च सह-स्राणां फलं लभेत् । यदा च शुक्लद्वादश्यां रोहिणी चप्रजायते । जयन्ती ३ नाम सा प्रोक्ता सर्वपापहरा-तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।तत् क्षालयति गोविन्दस्तस्थामभ्यर्चितस्तथा । यदा चशुकृद्बादश्या पुष्यं भवति कर्हिचित् । तदा साऽतिमहा-पुण्या कथिता पापनाशिनी ४ । यो ददाति च यत्-पुण्यं नित्यं संवत्सरे नरः । उपवासन्तु तस्यां च यःकरोति महत्फलम् । तस्यां जगत्पर्तिदेवः सर्वलोकेश्वरोहरिः । प्रत्यक्षतां प्रयात्याशु तदनन्तफलं स्मृतम्”एकादशीव्रतयोः साङ्कर्य्यादौ पारणे च विशेषः नि० सि०उक्तो यथा“एकादशीद्वादश्योरेकत्वे तन्त्रेणोपवासः पार्थक्ये तुशक्तस्योपवासद्वयम् “एकादशीमुपोष्यैव द्वादशीं समुपो-षयेत्” इति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव“एवमेकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् । पूर्ववासरजंपुण्यं सर्वं प्राप्नोत्यसंशयम्” इति तत्रैवोक्तेः यदात्व-ल्पा द्वादशी तदोक्तं मात्स्ये “यदा भवति अल्पापिद्वादशी पारणादिने । ऊषःकाले द्वयं कूर्य्यात् प्रातर्मा-व्याह्निकं तदा” नारदीयेऽपि “अल्पायामथ विप्रेन्द्र!द्वादश्यामरुणोदये । स्नानार्चनक्रियाः कार्य्या दानहो-नादि संयुताः” इति सङ्कटे तु माधवीये देवलः “संकटेविषमे प्राप्तं द्वादश्यां पारवेत्कथम् । अद्भिस्तु पारणंकुर्य्यात् पुनर्भक्तं न दोषकृत्” इति सङ्कटे त्रयोदशीश्राद्ध-प्रदोषादौ अत्र केचिदाहुः “अपकर्षवाक्यान्यनाहि-ताग्निविषयाणि अग्निहोत्रादीनां श्रौतत्वेनापकर्षा-योगादिति । द्वादश्यां च प्रथमपादमतिक्रम्य पारणंकार्यम् “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञि-तः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः” इतिनिर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः । अत्र केचित्सङ्गिरन्ते “यदा भूयसी द्वादशी तदापि प्रातर्मुहूर्त्त-त्रये पारणं कार्यम् “सर्वेषामुपवासासां प्रातरेव हिपारणमिति वचनादिति” । अस्मद्गुरवस्तु बहूनां कर्म-कालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्प-द्वादश्यामेवापकर्षविधानादपराह्व एव कार्यम् प्रातःशब्दस्तु “सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति”वदपराह्णषाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुनर्भो-जनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः । प्रमादेन एका-दश्युपवासातिक्रमे अपरार्के वाराहे “एकादशी विप्लुताचेद्द्वादशी परतःस्थिता । उपोष्या द्वादशी तत्र यदी-च्छेत्परमं पदम्” । नि० सि० स्थानान्तरेभाद्रपदशुक्लद्वादश्यां श्रवणयोगरहितायां पारणं कुर्य्यात्आभाकासितपक्षेष्विति दिवोदासोदाहृतवचनात् ।“उपोष्येकादशीं मोहात् पारणं श्रवणे यदि । करोतिहन्ति तत्पुण्यं द्वादशद्वादशीभवम्” इति तत्रैव स्का-न्दाच्च । अस्य तत्रैव प्रतिप्रसवः मार्कण्डेयोक्तः “विशेषेणमहीपाल! श्रवणं वर्द्धते यदि । तिथिक्षयेण भोक्तव्यंद्वादशीं लङ्घयेन्न हि” इति । केचित्तु यदा त्वपरिहार्य्यो-योगस्तदा श्रवणनक्षत्रे त्रेधाविभक्ते मध्यमविंशतिघटि-कायोगं त्यक्त्वा पारणं कार्यं तदुक्तं विष्णुधर्मे “श्रुतेश्चमध्ये परिवर्तमेति सुप्तिप्रबोधपरिवर्तनमम्बुवर्ज्यमिति” ।केचिच्चतुर्धा विभज्य मध्यपादद्वयं वर्ज्यमाहुः अत्रमूलं चिन्त्यम् । अत्रैव विष्णुपरिवर्तनोत्सवं कुर्य्यात् ।सन्ध्यायां विष्णुं संपूज्य प्रार्थयेत मन्त्रस्तु तिथितत्त्वे उक्तः ।ॐ “वासुदेव! जगन्नाथ! प्राप्तेयं द्वादशी तव । प्रार्श्वेनपरिवर्तस्व सुखं स्वपिहि माधव!” इति अत्रैव शक्रध्व-जोत्थापनमुक्तमपरार्के गर्गेण “द्वादश्यां तु सिते पक्षेमासि प्रौष्ठपदे तथा । शक्रमुत्थापयेद्राजा विश्वश्रवणवा-सवे” इयमेव श्रवणद्वादशी तत्रैकादश्यां द्वादशीश्र-वणयोगे सैवोपाष्या “एकादशी द्वादशी च वैष्णव्यमपितत्र चेत् । तद्विष्णुशृङलं नाम विष्णुसायुज्यकृद्भ-वेत्” इति विष्णुधर्मोक्तेः नारदीयेऽपि “संस्पृश्यै-कादशीं राजन् द्वादशीं यदि संस्पृशेत् । श्रवणं ज्यो-तिषां श्रेष्ठं ब्रह्महत्यां व्यपोहति । द्वादशी श्रवणस्पृष्टास्पृशेदेकादशीं यदि । स एव वैष्णवोयोगो विष्णुशृ-ङ्कलसंज्ञितः” इति हेमाद्रौ दिनद्वये द्वादशीश्रवणयोगे-ऽपि पूर्वा, निर्णयामृते त्वस्य पूर्वार्द्धमन्यथा पठितम् ।“द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि” इति तेनहेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त द्वा-दशीयोगमात्रेण विष्णुशृङ्खलं भवति निर्णयामृतमतेतु श्रवणस्यैकादशीद्वादशीभ्यां योग एव विष्णुशृङ्गलंनान्यथेति । यदा निशीथानन्तरं सूर्योदयावधि द्विकला-मात्रमपि श्रवणर्क्षं भवति तदापि पूर्वैव तदुक्तं तत्रैवनारदीये इमां प्रकृत्य “तिथिनक्षपयोर्योगोयोगश्चैवनराधिप! । द्विकलो यदि मभ्येत स ज्ञेयो ह्यष्टया-मिकः” इति “द्वादशी श्रवणस्पृष्टा कृत्स्ना पुण्यतमातिथिः । न तु सा तेन संयुक्ता तावत्येव प्रशस्यते” इतिमदनरत्ने मात्स्याच्च । दिवदोसीये तु “रात्रेः प्रथमपादेचेच्छ्रवणं हरिवासरे । तदा पूर्वामुपवसेत्प्रातर्भान्ते चपारणम्” इत्युक्तम् । इदं तु निर्मूलत्वात् पूर्वविरोधाच्चो-पेक्ष्यं इयं बुधवारेऽतिप्रशस्ता “बुधश्रवणसंयुक्ता सैव चेद्-द्वादशी भवेत् । अत्यन्तमहती सा स्याद्दत्तं भवति चा-क्षयम्” इति हेमाद्रौ स्कान्दात् । यानि तु पठन्ति“उत्तराषाढसंयुक्ता श्रोणामध्याह्नगापि वा । आसुरीसैव तारा स्याद्धन्ति पुण्यं पुराकृतम् । उदयव्यापिनीग्राह्या श्रोणाद्वादशिका युता । विश्वर्क्षसंयुता सा चनैवोपोष्या शुभेप्शुभिः” इत्यादीनि विष्णुधर्मस्कान्दमविष्यादीनि वचनानि तानि निर्मूलानि । यदपि स्मृ-त्यर्थसारे उदयव्यापिनी ग्राह्येत्युक्तं यच्च वृहन्नारदीये“उदयव्यापिनी ग्राह्या श्रवणद्वादशीव्रते” इति तद्यदाशुद्धाधिका द्वादशी परदिन एवोदये श्रवणयोगः पूर्वेऽह्निच तद्भिन्ने काले योगस्तत्परम् । दिनद्वये उदययोगेपूर्वैव बहुकर्मकालव्याप्तेरित्युक्तं मदनरत्ने । यदा त्वे-कादश्येव श्रवणयुता न द्वादशी तदापि पूर्वैव “यदा नप्राप्यत ऋक्षं द्वादश्यां वैष्णवं क्वचित् । एकादशी तदो-पोष्या पापघ्नी श्रवणान्विता” इति मदनरत्नेनारदीयोक्तेःयदा परैवर्क्षयुता तदा परा तत्र शक्तेनोपवासद्वयंकार्यम् “एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । नचात्र विधिलोपः स्यादुभयोर्दैवतं हरिः” इति भवि-ष्योक्तेः यत्तु विष्णुधर्मे “पारणान्तं व्रतं ज्ञेयं व्र-तान्ते विप्रभोजनम् । असमाप्ते व्रते पूर्वे नैव कुर्याद्-व्रतान्तरम्” इति तदेतद्भिन्नपरम् अत्र गौडाः “शृणुराजन् परं काम्य श्रवणद्वादशीव्रतम्” इति स्थूल-शीर्षवचनात् काम्यमेवेदम् तेनाशक्तस्य नित्यैकाद-शीव्रतमेवेति मन्यन्ते “द्वादश्यामुषवासेन शुद्धात्मा नृपसर्वशः । चक्रवर्तित्वसतुलं संप्राप्नोत्युत्तमां श्रियम्”इति गौडनिबन्धे मार्कण्डेयोक्तेश्च । दाक्षिणात्यास्तु“एकादश्यां नरो भुक्त्वा द्वादश्यां समुपोषणात् । व्रत-द्वयकृतं पुण्यं सर्वं प्राप्तोत्यसंशयम्” इति वराहवामनपुराणोक्तेः श्रवणद्वादशीव्रतमेवेत्याहुः भुक्त्वेति फला-द्याहारपरम् नत्वन्नपरम् “अन्नाश्रितानि पापानीति”निषेधात् “उपवासद्वयं कर्तुं न शक्नोति नरो यदि ।प्रथमेऽह्नि फलाहारी निराहारी परेऽहनि” इतिदिबोदासीये भविष्योक्तेश्च अशक्तौ तु गृहीतैकादशी-व्रतोयस्तं प्रत्युक्तं मात्स्ये “द्वादश्यां शुक्लपक्षे तु न-क्षत्रं श्रवणं यदि । उपोष्यैकादशीं तत्र द्वादश्यांपूजयेद्धरिम्” इति पूजयेन्न तूपवसेदित्यर्थः । अगृहीतैका-दशीव्रतश्चेदेकादश्यां भुक्त्वा द्वादश्यामुपवसेत् “एवमेका-दशीं भुक्त्वा द्वादशीं समुपोषयेत् । पूर्ववासरजं पुण्यसर्वं प्राप्नोत्यसंशयम्” इति नारदीयोक्तेः । पारणंतूभयान्तेऽन्यतरगते वा कुर्यात् “तिथिनक्षत्रनियमे तिथि-भान्ते च पारणमिति” स्कान्दात् “तिथिनक्षत्रसंयोगेउपवासो यदा भवेत् । पारणं तु न कर्तव्यं यावन्नैकस्यसंक्षयः” इति नारदीयादिति हेमाद्रिः । यद्यप्यत्र नक्षत्र-मात्रान्तेऽपि पारणं प्रतिभाति तथापि तिथिमात्रान्तेज्ञेयम् नत्वृक्षान्ते तिथिमध्येऽपि “याः काश्चित्तिथयःप्रोक्ताः पुण्या नक्षत्रयोगतः । ऋक्षान्ते पारणं कुर्य्याद्विना श्रवणरोहिणीम्” इति विष्णुधर्मे श्रवणान्तमात्रेपारणनिषेधात् “रोहिण्यान्तु भान्ते कुर्यात्तिथेर्वापि”इति वह्निपुराणात् तदन्तेऽप्यस्तु न त्वत्रैवमस्तीति न, ऋक्षान्तोऽनुकल्प इति मदनरत्ने । असम्भवे तु “तिथ्यन्तेतिथिभान्ते वा पारणं यत्र चोदितम् । यामत्रयोर्द्धगा-मिन्यां प्रातरेव हि पारणम्” इति ज्ञेयम् । यत्तु मदन-रत्ने द्वादशीवृद्धौ श्रवणवृद्धौ वा श्रवणान्त एव पारणंकुर्यात् “पारणं तिथिवृद्धौ तु द्वादश्यामुडुसंक्षयात् ।वृद्धौ कुर्य्यात्त्रयोदश्यां तत्र दोषो न विद्यते” इतिवह्निपुराणादित्युक्तम् तत्प्रकरणादेतस्यामेव श्रवण-युक्तैकादश्यां विहितविजयैकादशीव्रतप्ररं न तु श्रवण-द्वादशीपरमिति मदनरत्ने । गौडास्तु श्रवणद्वादशीपर-माहुः अत्रविधिर्मदनरत्ने विष्णुधर्मे “तस्मिन् दिने तथास्नानं यत्र क्वचन सङ्गमे । दध्योदनयुतं तस्यांजलपूर्णं घटं द्विजे । वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च । न दुर्गतिमवाप्नोति गतिमग्र्यां च विन्दति” ।दशावतारद्वादश्यो हेमा० व्र० उक्तो यथा विष्णुपु० “मार्गशीर्षे सिते पक्षे द्वादश्यां समजायत । मत्स्योविष्णुः समाहात्म्यः तस्येष्टेयं सदा तिथिः । एकादश्या-मुपोष्यादौ पठन् मत्स्यावतारकम् । शृण्वन् सौपर्णमन्त्रं च कारयित्वा वदेदिदम् ।” विष्णुर्मेप्रीयतां मत्स्य इत्युक्त्वा ब्राह्मणाय तम् । यो दद्यात्स सुखी भूत्वा विष्णुलोकं व्रजेच्छुभम् । पौषेमासि सिते पक्षे द्वादश्यां समजायत । कूर्मरूपी सभगवान् तस्येष्टेयं सदा तिथिः । एकादश्यामुपोष्यादौपठन् कूर्मञ्च तारकम् । शृण्वन् सौवर्णं कूर्मञ्च कार-यित्वा वदेदिदम् । विष्णुर्मे प्रीयतां कूर्म इत्युक्त्वा ब्राह्म-णाय तम् । यो दद्यात्स सुखी भूत्वा विष्णुलोके मही-यते । यो मर्त्यो माघशुक्लस्य द्वादश्यां तु विशेषतः ।उपोष्प भक्त्या वाभ्यर्च्य वराहं रुक्मनिर्मितम् । दद्या-त्पठेच्च चरितं बाराहं हरिमुत्तमम् । वराहजन्मदिबसेविप्राय श्रद्धयान्वितः । सुरमेतं समासाद्य मोदते काल-मक्षयम् । वराहविष्णुपीतिञ्च कूर्मदेवं यथातथम् ।नारसिंहं काल्गुने तु एकादश्यां सिते शुचिः । उपो-ष्याभ्यर्चयेद्भक्त्या नारसिंहभवे दिने । सौवर्णं नार-सिंहं च कृत्वा शक्त्या द्विजाय तु । दद्यान्नृसिंहचरि-तमिदं शृण्वन् पठंश्च वा । शत्रून् विजित्येह लक्ष्मींप्राप्य नित्यं नरोत्तमः । पातालस्वर्गमाप्नोति नाग-दैत्याङ्गनायुतम् । चैत्रे मासि सिते पक्षे एकादश्यामु-पोषितः । वामनस्य दिनेऽभ्यर्च्य वामनं पुरुषोत्तमम् ।सौवर्णं वामनं दद्यात् पठेद्भक्त्या च यो नरः । स चिरंवामनस्येदं शृणुयाद्वाप्युपोषितः । स धनैरन्वितो भुक्त्वाभोगानिह च मानुषान् । ब्रह्मलोकमवाप्नोति विद्वान्ना-मानुतत्परः । वैशाखशुक्लैकादश्यामुपोष्याभ्यर्चयेच्छुचिः ।जामदग्न्यं तथा रामं दद्याद्विप्राय रुक्मजम् । ज्यैष्ठ-शुक्लैकादश्यामुपोष्य द्वादशीदिने । रामं दाशरथिंरौक्मं पूजयेद्भक्तिभावतः । इदं च रामचरितं शृणु-याद्वा पठेन्नरः । रामस्य जन्मदिवसे (कल्पभेदादवि-रुद्धम्) तथा दाशरथेर्द्विजः । सीतारामन्तु सौवर्णंयो विप्राय प्रयच्छति । द्वादश्यां रामचरितमिदंशृण्वन् पठंश्च वा । स इन्द्रलोकं लभते रामस्यैव प्रसा-दतः । इह कीर्त्तिमवाप्नोति धनं पुत्रांश्च जीवितम् ।आषाढमासि शुक्लां य उपोष्यैकादशीं द्विजः । द्वाद-श्यामर्च्चयेद्रामं रौहिणेयं महाबलम् । रौहिणेयस्यरामस्य तिथौ जन्मनि सूत्तमे । सौवर्णं ब्राह्मणायापिरामं दद्यात्सपात्रकम् । स नागलोकमाप्नोति योवदिन्द्रा-श्चतुर्दश । इह स्त्रीभोगमाप्नोति वलवान्नीरुजो भवेत् ।श्रावणे मासि शुक्लां य उपोष्यैकादशीं द्विजः । द्वाद-श्यामर्चयेत् कृष्णं रुक्मिणीसहितं शुचिः । रुक्मप्रतिकृतिकृत्वा दद्याच्च ब्राह्मणाय च । पठेच्च कृष्णचरितं कृष्ण-जन्मदिने (कल्पभेदादविरुद्धम्) शुचिः । श्रावणे शृणु-याद्वापि य इदं पुरुषोत्तमः । स मुच्यतेऽस्मात् संसारात्भुक्त्वा भोगमनुत्तमम् । यस्तु भाद्रपदे मासि एकादश्यामु-पीषितः । शुक्लायामर्चयेत् कल्किं विष्णुं सौवर्णम-च्युयम् । द्वादश्यां जन्मदिवसे कल्किविष्णुः सुरेश्वरः ।दद्याद्विप्राय तं वापि भक्त्यानुष्ठानती मुदा । पठेदिदंकल्किविष्णोश्चरितं शृणुयात्ततः । जनलोकमवाप्नोतिकृते जन्म लभेद्युगे । तस्मिँस्तस्मिंस्तु दिवसे दत्तं बिष्ण्व-वतारकम् । अर्चयन्तु सुराः सर्वे भवेयुः सर्वदार्चिताः” । ति०त० नारदीये ‘वैशाखशुक्लपक्षे तु द्वादशी वैष्णवी तिथिः ।तस्यां शीतलतोयेन स्नापयेत् केशवं शुचिः’ । इयं पिपी-तकी द्वादशी । अत्र ‘षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयुता । पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् । एकादश्यांप्रकुर्वन्ति उपवामं मनीषिणः । उपासनाय द्वादश्यांविष्णोर्यद्वदियं तथा’ । इति भविष्यपुराणेन एकाद-श्युपवासानन्तरं द्वादश्यां विष्णूपासनाया उक्तत्वादत्रापितथा व्यवहरन्तीति नात्र युग्मादरः । द्वादशीक्षयेतूप-वामानन्तर्य्यं विनापि पूजेति । इयं पूर्ववचनोक्तषष्ठीयुतासप्तमीवत् । आषाढद्वादश्यादिषु शयनादिकं प्रागुक्तवचनात्भविष्यांत्तरे ‘द्वादशी श्रवणोपेता सर्वपापहरा तिथिः ।वुधवारसमायुक्ता ततः शतगुणा भवेत् । तामुपोष्यसमाप्नोति द्वादशद्वादशीफलम्’ । उभयदिने तल्लाभे तुएकादशीयुता ग्राह्या । ‘द्वादशी च प्रकर्तव्या एकादश्या-युता विभो । सदा कार्य्या च विद्वद्भिर्विष्णुभक्तैश्चमानवैः” इति स्कान्दात् । यदा त्वकादश्यामेव श्रवणातदा तामुपवसेत् तथाच नारदः “याः काश्चित्तिथयःप्रोक्ताः पुण्या नक्षत्रयोगतः । तास्वेव तद्वतं कुर्य्यात्श्रवणद्वादशीं विना” । भविष्योत्तरे ‘एकादशी यदा तुस्यात् श्रवणेन समन्विता । विजया सा तदा प्रोक्ताभक्तानां विजयप्रदा । तिथिनक्षत्रसंयोगे उपवासो यदाभवेत् । तावदेव न भोक्तव्यं यावन्नैकस्यसंक्षयः । विशेषेणमहीपाल! श्रवणं वर्द्धते यदि । तिथिक्षयेण नोक्तव्यंप्तादशीं नैव लङ्घग्येत्’ । तिथिक्षयेण एकादशीक्षयेणभोक्तव्यं द्वादश्यां पारयेदित्यर्थः । अत्र हेतुः द्वादशी-मित्यादिः । यदा त्वेकादश्युपवासदिने श्रवणं नास्तिपरदिने द्वादश्यां तत् तदोपवासद्वयमाह ब्रह्मवैवर्त्तः‘एकादशीमुपोष्यैव द्वादशी समुपोषयेत् । न चात्र विधि-लोपः स्यादुभयोर्देवता हरिः’ । अत्र च ‘असमाप्ते व्रतेपूर्वे नैव कुर्यात् व्रतान्तरम्’ सति स्मृतेः वारणस्याकरणेनपूर्वोपवासासमाप्तावुपवासान्तरारम्भे विधिलोपेन भवे-दित्यर्थः । हेतुमाह उभयोरित्यादिः । उभयोपवाला-सामर्थ्ये तु श्रवणद्वादश्येवोपोष्या तथाच स्मृतिः ‘वर-मेकादशीं भुक्ता द्वादशीं समुपोषयेत् । पूर्वोपवासजं पुण्यंसर्कं प्राप्नोत्यसंशयः’ । तथा ‘उपोष्य दादशीं पुण्यांविष्णुऋक्षेण संयुताम् । एकादश्युद्भवं पुण्यं नरःप्राप्नोत्यसंशयम्” । द्वादश्युपवासःवाम्यः । तथाह मार्क-ण्डेयः “द्वादश्यामुपवासेन सिद्धात्मा नृप सर्वशः ।चक्रवर्त्तित्वमतुलं संप्राप्नोत्यतुलां श्रियम्” तिथित०कश्चिद्विशेषोऽनयोर्देशभेदाद्व्यवस्था ।मासभेदे द्वादशद्वादशीव्रतभेदा अग्निपु० १८८ अ० उक्ता यथाअग्निरुवाच । द्वादशीव्रतकं वक्ष्ये भुक्तिनुक्तिप्रदायकम् ।एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन भै-क्ष्येण चैवं द्वादशिकव्रती । चैत्रे मासि सिते पक्षेद्वादश्यां मदनं हरिम् । पूजयेद् भुक्तिमुक्त्यर्थी मद-नद्वादशीव्रती १ । माघशुक्ले तु द्वादश्यां भीमद्वादशिक-व्रती । नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् २ ।फाल्गुने च लिते पक्षे गोविन्दद्वादशीव्रती ३ । विशोक-द्वादशीकारी यजेदाश्वयुजे हरिम् ४ । सगणं मार्ग-शीर्षे ५ तु कृष्णमम्पर्च्च्य यो नरः । ददाति शुक्ल-द्वादश्यां स सर्वरसदायकः । गोवत्सं पूजयेद् भाद्रेगोवत्सद्वादशीव्रती ६ । माध्यान्तु समतीतायां श्रवणेनतु संयुता । द्वादशी ७ या भनेस् कृष्णा प्रोक्ता सातिलद्वादशी । तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोद-कम् । दीपश्च तिलतैलेन तथा देयं तिलोदकम् ।तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः । ॐनमो भगवतेऽथो वासुदेवाय वै यजेत् । सकुलःस्वर्नमाप्नोति षट्तिलद्वादशीव्रती । मनोरथद्वादशीकृत्फाल्गुने तु सितेऽर्च्चयेत् ८ । नामद्वादशीव्रतकृत् केश-वाद्यैश्च नामभिः । वर्षं यजेद्धरिं स्वर्गी न भवेन्नारकी नरः । फाल्गुनस्य सितेऽभ्यर्च्च्य सुमतिद्वा-दशीव्रती ९ । मासि भाद्रपदे शुक्ले १० अनन्तद्वादशीव्रती ।अश्लेषर्क्षे तु मूले वा माघे ११ कृष्णाय वै नमः ।यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः । सुगतिद्वाद-शीकारी फाल्गुने तु सिते यजेत् । जय कृष्ण नम-स्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः । पौषशुक्ले तुद्वादश्यां १२ सम्प्राप्तिद्वादशीव्रती” ।द्वादशीनियमा तद्धर्मभेदनिषेधाश्च एका० त० उक्ता यथा“द्वादशीनियमाः । द्वादश्यामपि विष्णुपूजनम्“एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । उपा-लनाय द्वादश्यां विष्णोर्यद्वदियन्तथा” इति भविष्य-पुराणात् । यद्वत् यथा द्वादश्यां विष्णूपासनायएकादश्यामुपवासं प्रकुर्वन्ति तथा इयमपि षष्ठीयुक्तासप्तमी उपोष्या सप्तम्यां सूर्य्योपासनायेत्यर्थः । तत्रब्रह्माण्डपुराणम् । “कांस्यं मांसं सुरां क्षौरंलोभं वितथमाषणम् । व्यायामञ्च व्यवायञ्च दिवास्वप्नंतथाञ्जनम् । शिलापिष्टं मसूरांश्च द्वादशैतानि वै-ष्णवः । द्वादश्यां वर्ज्जयेन्नित्यं सर्वपापैः प्रमुच्यते ।पुनर्भोजनमध्यानं यानमायालमैथुने, उपवासफलं हन्यु-र्दिवा निद्रा च पञ्चमी” । वृद्धशातातपः “उप-वासं द्विजः कृत्वा ततोब्राह्मणभोजनम् । कुर्य्यात्त-थास्य सगुण उपवासो हि जायते” । सगुणः साङ्गः ।नारायणमन्त्रजपश्च पाश्चात्यनिर्णयामृते कात्यायनः“मिथ्यावादे दिवास्वप्ने वहुशोजलसेवने । अष्टाक्षरंवती जत्सा शतमष्टोत्तरं शुचिः” तथा “मन्त्रं निवेद्यहरये निवेद्योपोषणं व्रती । द्वादश्यां पारणं कुर्य्याद्वर्ज-यित्वा प्युपोदकीम्” । उपोदकीम् पूतिकाशाकम् ।कूर्मपुराणे “कांस्यं मांसं सुरां क्षौद्रं हिंसां तैलमसत्यताम् । द्यूतक्रीडां दिवानिद्रां व्यायामं क्रोघमैथुनम् । द्बादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत्”सवत्सरप्रदीपे “अभ्यङ्गञ्च परान्नञ्च तैलं निर्माल्य-लङ्घनम् । तुलसीचयनं द्यूतं पुनर्भोजनमेव च ।वस्त्रपीडां तथा क्षारं द्वादश्यां वर्जयेद्बुधः” । अभ्यङ्गोयेनकेनापि, तैलं तिलतैलं मार्ष्टावपि निषिद्धम् । स्मृतिः“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् । अदुष्टंपक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः” इति अभ्यङ्गो द्वादशी-तरपरः । नित्यश इति पर्ववारादाबपि । वारे द्रव्यदा-नेनापि प्रतिप्रसवमाह स्मृतिः “रवौ पुष्पं गुरौ दूर्वांभूभिं भूमिजवासरे । भार्गवे गोमयं दद्यात्तैलदोषोप-शान्तये” । दद्यात्तैले इति शेषः । सूरिसन्तोषे“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् । शाकंमधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्” । निर्माल्यलङ्घन-मन्यत्रापि निषिद्धमत्राधिकदोषकरं व्रतहानिकरं वा ।क्षारं वस्त्रस्य । “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्ध-वासरे! वस्त्राणां आरसंयोमोदहत्यासप्तमं कुलम्” ।इति यमवचनात्” ।
Grassman
GermanBurnouf
Frenchद्वादश द्वादश a. [f. ई] douzième. -- F. le 12ᵉ
jour de la quinzaine lunaire.
द्वादशकर (कर main) Bṛhaspati
Kārttikeya.
द्वादशन् a. douze.
Gr.
δώδεϰα
lat. duodecim.
द्वादशलोचन Kārttikeya aux 12 yeux.
द्वादशांशु (अंशु) Bṛhaspati aux 12 rayons.
द्वादशाक्ष (अक्ष) Kārttikeya aux 12 yeux.
द्वादशाङ्गुल mesure de 12 doigts.
द्वादशात्मन् (आत्मन्) le Soleil, douze fois
personnifié dans les Ādityas.
द्वादशायुस् (आयुस्) chien, qui vit 12 ans.
द्वादशार्चिस् (अर्चिस्) Bṛhaspati aux 12 rayons.
द्वादशिन् a. douzième, formé de 12.
Stchoupak
Frenchद्वा-दश(न्)-
num. 12
a. (f. -ई-) 12{^me^}
ifc. (f. -आ-)
formant 12 avec
-ई- 12{^me^} jour de la quinzaine
-क- -ई- a.
12{^me^}
(amende) de 12 paṇa
-म- -ई- a. 12{^me^}
-इक- a. qui a lieu
le 12{^me^} jour ou le 12{^me^} jour de la quinzaine.
°पद- a. de 12 mots.
°वर्ष- °वा̆र्षिक- a. âgé de 12 ans
qui dure 12 ans.
°शततम- a. 112{^me^}.
°साहस्र- -ई- a. de 12.000.
द्वादशाकृति- a. ayant 12 formes.
द्वादशात्मन्- (id.) soleil.
द्वादशार- a. (roue) à 12 rayons (symbolisant l'année).
द्वादशाह- période ou cérémonie de 12 jours.
द्वादशी-व्रत- nt. d'une observance pratiquée le 12{^me^} jour de la
quinzaine.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
