| YouTube Channel

द्वात्रिशल्लक्षण (dvAtrizallakSaNa)

 
वाचस्पत्यम्
Sanskrit
द्वात्रिशल्लक्षण
पु०
द्वात्रिंशत् लक्षणानि शुभलक्षणानि यस्य ।शुभलक्षणान्विते महापुरुषलक्षणयुते नरे काशी० स्व०११ अ० “पञ्चदीर्घः पञ्चसूक्ष्मः सप्तरक्तः षडुन्नतः ।त्रिपृथुलघुगम्भीरोद्वात्रिंशलक्षणस्त्विति” “पञ्च दीर्घाणिशस्यानि यथा दीर्घाण्यथास्य वै भूजौ नेत्रे हनू नासा-वक्षसी तनयस्य ते त्वक्केशाङ्गुलिदशनाः पर्व्वाण्यङ्गुलिजान्थपि तस्यास्य पञ्च सूक्ष्माणि दिक्पालपदभाक्यथा पाण्यङ्घ्रितलनेत्रान्तं तालुजिह्वाधरौष्ठकम् ।सप्तारुणञ्च सनखमस्मिन् राज्यसुखप्रदम् कक्षाकुक्ष्यलिकस्कन्धकरवक्त्रं षडुन्नतम् तथात्र दृश्यते बालेमहदैश्चर्य्यभाग् यथा ललाटकटिवक्षोभि स्त्रिविस्तीर्णोयथाह्यसौ सर्वतेजोतिगैश्वर्य्यं तथा प्राप्स्यति नान्यथा ।ग्रीवाजङ्घामेहनैश्च त्रिभिर्ह्रस्वोऽयमीडितः स्वरेणस्वत्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः ।”