| YouTube Channel

द्वात्रिंशल्लक्षणोपेतः (dvAtriMzallakSaNopetaH)

 
शब्दकल्पद्रुमः
Sanskrit
द्वात्रिंशल्लक्षणोपेतः,
पुं,
(द्वात्रिंशल्लक्षणैरुपेतः ।)महापुरुषः इति शब्दार्थकल्पतरुः
तल्लक्ष-णानि यथा, --“रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलंतुङ्गताविस्तारस्त्रिषु खर्व्वता त्रिषु तथा गम्भीरताच त्रिषु ।दैर्ध्यं पञ्चसु किञ्च पञ्चसु सखे ! संप्रेक्ष्यतेसूक्ष्मताद्वात्रिंशद्वरल णः कथमसौ गोपेषु सम्भा-व्यते
”इति श्रीहरिभक्तिरसामृतसिन्धुः
“राग इति श्रीमद्व्रजेश्वरं प्रति कस्यचित् सव-यसो गोपस्य वाक्यमिदम् सप्तसु नेत्रान्त-पादकरतलताल्वधरौष्ठजिह्वानखेषु षट्सु वक्षः-स्कन्धनखनासिकाकटिमुखेषु त्रिषु कटिललाट-वक्षःसु केचित् कटिस्थाने शिरः पठन्ति ।पुनस्त्रिषु ग्रीवाजङ्घामेहनेषु पुनस्त्रिषु नाभि-स्वरसत्वेषु पञ्चसु नासाभुजनेत्रहनूजानुषु ।पुनः पञ्चसु त्वक्केशरोमदन्ताङ्गुलिपर्व्वसु ।तथैव महापुरुषलक्षणे सामुद्रकग्रन्थप्रसिद्धेः ।द्वात्रिंशद्वराणि तत्तल्लक्षणेभ्यः अन्येभ्योऽपिश्रेष्ठानि लक्षणानि यस्य सः गोपेषु कथमितिभगवदवतारादिषु अप्येतादृशत्वाश्रवणादितिभावः ।” इति श्रीजीवगोस्वामिविरचिता दुर्गम-सङ्गमनीनाम्नी टीका