द्वन्द्वं (dvandvaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiथा जोड़ी
शब्दकल्पद्रुमः
Sanskritद्वन्द्वं, (द्वौ द्वौ सहाभिव्यक्तौ । “द्वन्द्वं रहस्य-मर्य्यादावचन-व्युत्क्रमण-यज्ञपात्रप्रयोगाभि-व्यक्तिषु ।” ८ । १ । १५ । इति द्बिशब्दस्य द्बिर्व-चनं पूर्व्वपदस्याम्भावोऽत्वञ्चोत्तरपदस्य नपुंस-कत्वञ्च निपात्यते ।) रहस्यम् । कलहः ।(यथा, हितोपतेशे । ३ । ३२ ।“शतं दद्यान्न विवदेदिति प्राज्ञस्य लक्षणम् ।विना हेतुमपि द्बन्द्बमेतन्मूर्खस्य लक्षणम् ॥
”)मिथुनम् । (यथा, रघुः । १ । ४० ।“परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।मृगद्बन्द्बेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥
”)युग्मम् । इति मेदिनी । वे, १० ॥
(यथा, महा-भारते । १ । १३७ । १५ ।“द्बन्द्बयुद्धञ्च पार्थेन कर्त्तुमिच्छान्यहं प्रभो ! ॥
”शीतोष्णादि । यथा, माघे । ४ । ६४ ।“सर्व्वर्त्तुनिर्वृतिकरे निवसन्नुपैतिन द्बन्द्बदुःखमिह किञ्चिदकिञ्चनोऽपि ॥
”)दुर्गम् । (अत्र पुंस्त्वमपि ।) अथ द्बन्द्बयुक्तिः ।“राज्ञो बलं न हि बलं द्बन्द्बमेव बलं बलम् ।अप्यल्पबलवान् राजा स्थिरो द्बन्द्बबलाद्भवेत् ॥
”तथा च ।“एकः शतं योधयति प्राकारस्थो घनुर्धरः ।शतं दशसहस्राणि तस्माद्दुर्गं विशिष्यते ॥
अकृत्रिमं कृत्रिमञ्च तत् पुनर्द्विविधं भवेत् ।यद्दैवसूचितं द्बन्द्बं गिरिनद्यादिसंश्रितम् ।अकृत्रिममिदं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम् ॥
प्राकारपरिखारण्यसंश्रयं यद्भवेदिह ।कृत्रिमं नाम विज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम् ॥
”तत्राकृत्रिमद्बन्द्बयुक्तिर्यथा, --“अत्युच्चविस्तीर्णशिरा दुरारोहः सकाननः ।सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः ॥
सुखनिःसरणो द्बन्द्बः पर्व्वताख्यो महीभुजाम् ।नद्यो गभीरविस्तीर्णाश्चतुर्द्दिक्षु व्यवस्थिताः ॥
तन्मध्ये भूप्रदेशो यो नदीद्बन्द्बः स उच्यते ।यदन्यच्चिरकालीनं दुर्लङ्घ्यविपिनादिकम् ॥
तन्मध्यरचिता भूमिर्द्वन्द्बत्वेनोपतिष्ठते ।वनद्बन्द्बमिति ख्यातं यथापूर्व्वं महत्तरम् ॥
” * ॥
कृत्रिमद्बन्द्बयुक्तिर्यथा, --“यस्मिन् राज्ये गिरिर्नास्ति नद्यो वा गहनो-दकाः ।तस्य मध्ये महीपालः कृत्रिमं द्बन्द्बमारभेत् ॥
गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः ।द्बन्द्बत्वेन समादिष्टाः परिखा बहुयादसः ॥
विशालशालं सुधनं बहुकण्टकिसङ्कटम् ।द्बन्द्बत्वेन समादिष्टं विस्तीर्णं विषमं बलम् ॥
अधोऽधोवध्यमानोऽपि कन्दरोऽल्पजलं स्रवन् ।द्वन्द्बत्वेन समुद्दिष्टः स दुर्लङ्घ्यो हि भूभुजाम् ॥
सर्व्वतः परिखां कृत्वा निबन्धोपरि कन्दरम् ।तज्जलप्लुतदेशत्वात् जलद्बन्द्बं तदुच्यते ॥
एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात् ।वर्षासु प्लवते वारि जलद्बन्द्बं ततो भवेत् ॥
एतयोरपि संमिश्रात् संमिश्रं द्बन्द्बमाचरेत् ।आश्रित्य कृत्रिमं द्बन्द्बं बलवद्बैरिणो दिशि ॥
अन्यत्र कृत्रिमं द्बन्द्बं कृत्वा नरपतिर्वसेत् ।रथपतिर्यदा वैरी स्थलद्बन्द्बं तदाचरेत् ॥
गजाश्वनाथश्चेद्बैरी जलद्बन्द्बं तदाचरेत् ।गिरिद्बन्द्बं नृपः सेवेत् यस्य स्याद्द्विविधो रिपुः ॥
सर्व्वो हि त्रिविधो युद्धः समासादुपदिक्ष्यते ।प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव च ॥
राज्यान्ते सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् ।गुप्ते स्त्रीकोषसम्भारं संरक्षेदिति निश्चयः ॥
”अथ सामान्यतो गुणाः ।तथा हि । नीतिशास्त्रम् ।“सप्रवेशापसरणं द्बन्द्बमुत्तममुच्यते ।अन्यत्र वन्दिशालेव न तादृग्बद्धमाश्रयेत् ॥
धनुर्द्वन्द्बं महीद्बन्द्बं गिरिद्बन्द्बं तथैव च ।मनुष्यद्बन्द्बसंसर्गं वरद्बन्द्बञ्च तानि षट् ॥
”अन्ये तु ।“न द्बन्द्बं द्बन्द्बमित्याहुर्योद्धृद्बन्द्बं प्रकीर्त्तितम् ।योद्धृशून्यं हि यत् द्बन्द्बं मृतकायसमं हि तत् ॥
”अथान्यत्रापि ।“यावत् प्रमाणं नगरं हि राज्ञांततो भवेदुत्तममध्यमान्त्यम् ।त्रिंशत्तदर्द्धाष्टगुणोत्तरेणत्रिदेशजानां धरणीपतीनाम् ॥
”गर्गस्तु ।“यदन्यद्द्विविधं द्बन्द्बं प्रोच्यते धरणीभुजाम् ।ताभ्यामेवातिरिच्येत मन्त्रद्बन्द्बं विशेषतः ॥
अन्येषु दैवाद् भिन्नेषु मन्त्रद्बन्द्बात् जयेन्नृपः ।मन्त्रद्बन्द्बे हि भिन्ने हि न चान्यत् कार्य्यकार-कम् ॥
”भोजस्तु ।“यदैष वैरिदुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् ।सप्रवेशापसरणं तद्द्वन्द्बमुत्तमं विदुः ॥
”इति भोजराजकृतयुक्तिकल्पतरुः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
