| YouTube Channel

द्रोहार्थे (drohArthe)

 
कृदन्तरूपमाला
Sanskrit
1 {@“राध संसिद्धौ”@} 2 3 ‘राधोऽकर्मकाद् वृद्धावेव’ 4 इति दिवादिषु पठ्यते।
अस्यायमर्थः- एवकारो भिन्नकमः।
अस्मादकर्मकादेव श्यन्।
वृद्धिग्रहणं तु उदाहरणप्रदर्शनार्थम् यथा वृद्धावकर्मकः, एवमकर्मकेषु सर्वत्राप्यर्थेषु श्यनं लभतेऽयमिति।
ततश्च, ‘वृद्धिक्षय-भय-जीवित-मरणं लज्जा-सत्ता-स्थिति-जागरणम्।
शयन-क्रीडा-रुचि-दीप्त्यर्थं धातुगणं तमकर्मकमाहुः।।’ इत्युपात्तानामर्थानाम् वृद्धिशब्द उपलक्षक इति भावः।
एवञ्च, ‘राध्येद् वृद्धावकर्मकात्।’ इति देववचने 5 वृद्धिग्रहणं तु अकर्मकक्रियोदाहरणमात्रमिति पुरुषकारे व्यक्तम्।
धातुकाव्यव्याख्यायां तु 6 एवकारस्य इवार्थकत्वमाश्रित्य, ‘वृद्धावेव = वृद्ध्यर्थ इव।’ इति विवृतम्।
काश्यपस्तु एवकारस्य यथाश्रुतान्वयमिच्छन् वृद्ध्यर्थ एव श्यन् इत्यभ्युपगतवानिति माधवधातुवृत्तितो ज्ञायते।
सिद्ध्यर्थे ‘राध्यत्योदनः स्वयमेव’ इति भाष्य 7 प्रयोगात्, ‘देवदत्ताय राध्यति’ इति दैवपर्यालोचनार्थे काशिकायां 8 प्रयुक्तत्वात्, ‘-- यन्मह्यमपराध्यति।’ 9 इति द्रोहार्थे माघप्रयोगाच्च काश्यपोक्तिर्न समीचीना
उपात्तस्थलेषु सर्वत्राकर्मकत्वे मति वृद्ध्यर्थत्वाभावात्।
विस्तरस्तु अन्यत्र।]] ‘राध्नोति संसिद्ध्यर्थे श्नौ, राध्येद् वृद्धावकर्मकात्।’ 10 इति देवः।
“अस्य तु सिद्धिद्रोहदैवपर्यालोचनादयोऽर्थाः।” इति धा।
का।
व्याख्या 11।
राधकः-धिका, राधकः-धिका, रिरात्सकः-त्सिका, राराधकः-धिका
राद्धा-राद्ध्री, राधयिता-त्री, रिरात्सिता-त्री, राराधिता-त्री
इतीमानि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 12 बोध्यानि।
देवदत्ताय 13 राध्यन्-न्ती-ती, 14 राध्यन् ओदनः स्वयमेव, 15 राद्धिः, इतीमान्य- स्माद् भवन्ति।
16
प्रासङ्गिक्यः
01
=>
(१३९५)
02
=>
(४-दिवादिः-११८०। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(ग। सू।)
05
=>
(श्लो १। २२)
06
=>
(२-६३)
07
=>
(३-१-८७)
08
=>
(१-४-३७)
09
=>
(शिशुपालवधे २-११)
10
=>
(श्लो। १२२)
11
=>
(२-६३)
12
=>
(३१५)
13
=>
[[१। ‘राधोऽकर्मकाद् वृद्धावेव’ (ग। सू। दिवादिषु) इति श्यन्। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम्विकल्पः। ‘राधीक्ष्योर्यस्य विप्रश्नः’ (१-४-३९) इति चतुर्थी। नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयन् इत्यर्थः।]]
14
=>
[[२। कर्मकर्तरि प्रयोगः। अत्र ‘राध्यतेर्विक्लित्तिवचनत्वात्…’ इति भाष्यप्रदीपः। तेनात्र सामान्यतः सिद्ध्यर्थकत्वेऽपि सिद्धिविशेषरूपपाकोऽपि धातूनामनेकार्थकत्वाद् बोध्यः।]]
15
=>
[[३। हलन्तलक्षणाकारप्रत्ययापवादः ‘क्तिन् आबादिभ्यः…’ (वा। ३-३-९४) इति क्तिन्।]]
16
=>
[पृष्ठम्१११५+ २६]