| YouTube Channel

द्रोणीलवण (droNIlavaNa)

 
Monier Williams Cologne
English
द्रोणी—लवण
n.
a kind of salt coming from Droṇī,
L.
शब्दकल्पद्रुमः
Sanskrit
द्रोणीलवणं,
क्ली,
(द्रोणीसम्भूतं लवणम् ।) उप-कर्णाटदेशप्रसिद्धलवणविशेषः तत्पर्य्यायः ।द्रोणेयम् वार्द्धेयम् द्रोणीजम् वारिजम्५ वार्द्धिभवम् द्रोणी त्रिकूटलवणम् ।अस्य गुणाः पाकेनात्युष्णत्वम् अविदाहि-त्वम् भेदनत्वम् स्निग्धत्वम् शूलनाशित्वम् ।अल्पपित्तलत्वञ्च इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
द्रोणीलवण
न०
द्रोण्यां भवं लबणम् उपकर्णाटदेशभवेलबणे राजनि० “विज्ञेयं द्रोणीलबणं पाके नात्युष्णतांगतम् अविदाहि भेदकञ्च स्निग्धं शूलविनाशनम् ।अल्पपित्तकरं चैव भिषग्भिः समुदाहृतम्” राजनि०