| YouTube Channel

द्रेकृ (drekR)

 
Shabdartha Kaustubha
Kannada
द्रेकृ - शब्दोत्साहयोः (भ्वा० आत्म० अक० से०) द्रेकते
पदविभागः - > धातुः
कन्नडार्थः - > ಶಬ್ದ ಮಾಡು
द्रेकृ - शब्दोत्साहयोः (भ्वा० आत्म० अक० से०) द्रेकते
पदविभागः - > धातुः
कन्नडार्थः - > ಬೆಳೆ /ವೃದ್ಧಿ ಹೊಂದು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
द्रेक्
मूलधातुः:
द्रेकृ
धात्वर्थः:
शब्द-उत्साहनयोः (वृद्धिरौन्नत्यं च)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
द्रेकते
धातुप्रदीपः
Sanskrit
द्रेकृँ द्रेकृ
मानकरूपान्तरम् - ध्रेकृँ
ध्रेकृ शब्द, उत्साहयोः
- द्रेकते अदिद्रेकत् ध्रेकते अदिध्रेकत् ।।76, 77 ।।
क्षीरतरङ्गिणी
Sanskrit
द्रेकृँ द्रेकृ
मानकरूपान्तरम् - धेकृँ
धेकृ शब्दोत्साहयोः
शब्दस्यौद्धत्ये चन्द्रो वृद्धावित्याह द्रेकते, अदिद्रेकत् उद्द्रेकः 75, 76
धातुवृत्तिः
Sanskrit
द्रेकृँ द्रेकृ
मानकरूपान्तरम् - ध्रेकृँ
ध्रेकृ (अर्थः) शब्द, उत्साहयोः
शब्दोत्साह इति केचित् यदाह काश्यपः ( द्रेकते ) शब्देनोत्साहं करोतीति उत्साहो वृद्धिरिति चन्द्रः औद्धत्यमिति स्वामी ( द्रेकते दिद्रेके द्रेकितेत्यादि द्रेकणः ) "रषाभ्याम्'' इति णः एवं ध्रेकत इत्यादि 79
कृदन्तरूपमाला
Sanskrit
1 {@“द्रेकृ शब्दनोत्साहयोः”@} 2 ‘उत्साहः = वृद्धिरौद्धत्यञ्च।
‘शब्दोत्साहे’ इति केचित्।
यदाह काश्यपः- ‘द्रेकते = शब्देनोत्साहं करोति।’ इति मा।
धा।
वृत्तिः।
द्रेककः-किका, द्रेककः-किका, दिद्रेकिषकः-षिका, देद्रेककः-किका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगेपतिवत् 3 ज्ञेयानि।
घञि 4 द्रेकः-उद्द्रेकः।
5
प्रासङ्गिक्यः
01
=>
(८८७)
02
=>
(१-भ्वादिः-७८। अक। सेट्। आत्म।)
03
=>
(४२९)
04
=>
[[B। ‘तमुत्तमश्लोकमवेक्ष्य तत्स्तुतिद्रेकैरुपध्रेकयिताऽस्मि दिक्तटम्।।’ धा। का। १। ११।]]
05
=>
[पृष्ठम्०७८५+ २५]