| YouTube Channel

द्रुपदादित्य (drupadAditya)

 
Monier Williams Cologne
English
द्रु—प°दादित्य
m.
a form of the Sun, ib.
वाचस्पत्यम्
Sanskrit
द्रुपदादित्य
पु०
काशीस्थे द्रौपद्याः स्थापिते आदित्यलिङ्ग-भेदे तदाविर्भवकथा काशीख० ४९ अ०“आकर्णय मुने पूर्वं पञ्चवक्त्रो हरेः स्वयम् पृ-थिव्यां पञ्चधा भूत्वा प्रादुरासीज्जगद्धितः उमापि चजगद्धात्री द्रुपदस्य महीभुजः यजतो वह्निकुण्डाच्चपादुश्चक्रेऽतिसुन्दरी पञ्चापि पाण्डुतनयाः साक्षाद्रुद्र-वपुर्द्धराः अवतेरुरिह स्वर्गाद् दुष्टसंहारकारिणः ।नारायणोऽपि कृष्णत्वं प्राप्य तत्साहचर्य्यकृत् दुर्वृत्त-वृत्तशमनः सद्वृत्तस्थितिकारकः प्रतपन्तः पृथिव्यान्तेपार्थाश्चेरुः पृथक् पृथक् उदयानुदयौ तस्मिन् सम्पदांविपदामपि कदाचित्ते महावीरा भ्रातृव्यप्रति-पादिताम् विपत्तिमाप्य महतीं बभूवुः काननौकसः ।पाञ्चाल्यपि तत्पत्री पतिव्यसनकर्षिता घर्म्मज्ञाप्राप्य तन्वङ्गी व्रध्नमाराधयद्भृशम् आराधितोऽथसविता तया द्रुपदन्यया सदर्वीं सपिधानाञ्चस्थालिकामक्षयान्ददौ उवाच प्रसन्नात्मा भास्करोद्रुपदात्मजाम् आराधयन्तीं भावेन सर्वत्र शुचिमान-साम् स्थाल्यैतया महाभागे! यावन्तोन्नार्थिनोजनाः ।तावन्तस्तृप्तिमाप्स्यन्ति यावच्च त्वं भोक्ष्यसे भुक्तायांत्वयि रिक्तैषा पूर्णभक्ता भविष्यति रसवद्व्यञ्जननिधिं-रिच्छाभक्ष्यप्रदायिनी इत्थं वरस्तया लब्धः काश्या-मादित्यतो सुने! अपरश्च वरो दत्तस्तस्यै देवेन भास्वता ।रविरुवाच विश्वेशाद्दक्षिणे भागे यो मां त्वत्पुरत-स्थितम् आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति ।अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते! तपसा परि-तुष्टेन तं निशामय वच्मि ते प्राग्रवे! त्वां समाराध्ययो मां द्रक्ष्यति मानवः तस्य त्वं दुःखतिमिरमपा-नुद निजैः करैः अतो धर्मप्रिये! नित्यं प्राप्य विश्वे-श्वराद्वरम् काशीस्थितानां जन्तूनां नाशयाम्यघसञ्जयम् ये मामत्र भजिष्यन्ति मानवाः श्रद्धयान्विताः ।त्वद्वरोद्यतपाणिञ्च तेषां दास्यामि चिन्तितम् भवतीं मत्-सभीपस्थां युधिष्ठिरपतिव्रताम् विश्वेशाद्दक्षिणे भागेदण्डपाणेः समीपतः येऽर्च्चयिष्यन्ति भावेन पुरुषावा स्त्रियोऽपि वा तेषां कदाचिन्नो भावि भयं प्रिय-वियोगजाम् व्याधिजं भयं क्वापि क्षुत्तृट्श्लेष्म-सम्भवम् द्रौपदीक्षणतः काश्यां तव धर्मप्रियेऽनघे! ।इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् शम्भुमा-राधयामास धर्मं द्रौपद्युपाययौ आदित्यस्य कथामेतांद्रौपद्याराधितस्य वै यः श्रोष्यति नरो भक्त्या तस्यै-नः कथमेध्यति स्कन्द उवाच द्रौपदादित्यमाहात्म्यंसंक्षेपात् कथितं मया मयूखादित्यमाहात्म्यं शृण्विदानीं घटोद्भव!” “चतुर्थो द्रुपदादित्यः” काशीख०४६ अ० द्रौपदादित्योऽप्यत्र “इदानीं द्रौपदादित्यंकथयिष्यामि तेऽनघ” तत्र