द्रुपदात्मज (drupadAtmaja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaद्रुपदात्मज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಧೃಷ್ಟದ್ಯುಮ್ನ
Wordnet
Sanskrit शिखण्डी, द्रुपदात्मज
द्रुपदस्य एकः पुत्रः य़ः मूलतया स्त्री आसीत् परन्तु अनन्तरं कामपि साधनां कृत्वा पुरुषो अभवत्
"शिखण्डी भीष्मं हतवान्"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Mahabharata
EnglishDrupadātmaja^1 (“son of Drupada”) = Śikhaṇḍin: V, 5126 (Śº), 7550 (Śº)
VI, 558 (Śº), 5690.
Drupadātmaja^2 (do.) = Dhṛshṭadyumna: VI, 2704, †3380
VII, 8874
IX, †1088 (Pāñcālaputraḥ).
Drupadātmaja, pl. (ºāḥ) (“the sons of Drupada”). § 243 (Vidurāgamanap.): I, 205, 7508 (Dhṛshṭadyumnamukhāḥ). --§ 589 (Droṇābhishekap.): VII, 8, †248. Cf. Drupadaputra, pl.
वाचस्पत्यम्
Sanskritद्रुपदात्मज ६ त० । १ द्रुपदस्य राज्ञो नन्दने शिखण्डिनि२ धृष्टद्युम्ने ३ याज्ञसेन्यां स्त्री । शिखण्डी च स्त्रीरूपेणपूर्यं जातः पश्चात् स्थूणयक्षवरेण पुंस्त्वमाप तत्कथाभा० उद्यो० १९२ । ९३ अ० दृश्या “रवमेव महाराज!स्त्रीपुमान् द्रुपदात्मजः । स सम्भूतः कुरुश्रेष्ठ! शि-खण्डी भरतर्षभ!” इत्यन्त ग्रन्थे द्रुपदशब्दे दर्शितेद्रोणद्रुपदयो वैरे जाते तन्मूलनिर्वेदात् द्रुपदस्य द्रोणा-न्तकपुत्रेच्छया याजोपयाजाभ्यां यज्ञस्य करणे अग्निम-ध्यात् धृष्टद्युम्न कृष्णयोरुत्पत्तिकथा भा० आ० १६७ अ०“द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् । द्रोणा-न्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत् कर्म कुरु मेयाज! वितराम्यर्वुदं गवाम् । तथेत्युक्त्वा तु तं याजोयाज्यार्थमुपकल्पयन् । गुर्वर्थ इति चाकाममुपयाजमचो-दयत् । याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ।ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौकर्म वैतानं तदा पुत्रफलाय वै । स च पुत्रो महावीर्य्योमहातेजा महाबलः । दृष्यते यद्विधो राजन्! भविताते तथाविधः । भारद्वाजस्य हन्तारं सोऽभिसन्धायभूपतिः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये । याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा । प्रैहि मां राज्ञिपृषति! मिथुनं त्वामुपस्थितम् । राज्ञ्युवाच । अवलिप्तमुखं ब्रह्मन्! दिव्यान गन्धान् बिभर्म्मि च । सुतार्थेनोपलब्धास्मि तिष्ठ याज मम प्रिये । याज उवाच ।याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम् । कथं कामंन सन्दध्यात् सा त्वं विप्रेहि तिष्ठ वा । ब्राह्मणउवाच । एवमुक्त्वा तु याजेन हुते हविषि सत्कृते ।उत्तस्थौ पावकात्तस्मात् कुमारो देवसन्निभः । ज्वाला-वर्णो घोररूपः किरीटी वर्म्म चोत्तमम् । बिभ्रत सं०खड्गः सशरो धनुष्मान् विनदन्मुहुः । सोऽध्यारोह-द्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाःप्रहृष्टाः साधु साध्विति । हर्षाविष्टांस्ततश्चैतान्नेयं सेहेवसुन्धरा । भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।राज्ञः शोकापहो जात एष द्रोणबधाय वे । इत्युवाचमहद्भूतमदृश्यं खेचरं तदा । कुमारी चापि पाञ्चालीयेदीमध्यात् समुत्थिता । सुभगा दर्शनीयाङ्गी स्वसिता-यतलोचना । श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्द्धजा ।ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा । मानुषं विग्रहंकृत्वा साक्षादमरवर्णिनी । नालोत्पलसमो गन्धो यस्याःक्रोशात् प्रधावति । या विभर्त्ति परं रूपं यस्या नास्त्यु-पमा भुवि । देवदानवयक्षाणामीप्सिता देवरूपिणी ।ताञ्चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयो-षिद्वरा कृष्णा निनीषुः क्षत्त्रियान् क्षयम् । सुरकार्य्य-मियं काले करिष्यति सुमध्यमा । अस्या हेतोः कौर-वाणां महदुत्पत्स्यते भयम् । तं श्रुत्वा सर्वपाञ्चालाःप्रणेदुः सिंहसङ्घवत् । न चैतान् हर्षसम्पूर्णानियंसेहे वसुन्धरा । तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुता-र्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ।तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्चनामनी चक्रुर्द्विजाः सम्पूर्णमानसाः । धृष्टत्वादतिधृष्णु-त्वाद्द्युम्नादुत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुप-दस्य भवत्विति । कृष्णेत्येवाब्रुवन् कृष्णां कृष्णाभूत् साहि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ।धृष्टद्युम्नन्तु पाञ्चाल्यमानीय स्वं निवेशनम् । उपाकरो-दस्त्रहेतोर्भारद्वाजः प्रतापवान् । अमोक्षणीयं दैवं हिभावि मत्वा महामतिः । तथा तत् कृतवान् द्रोणआत्मकीर्त्त्यनुरक्षणात्” । द्रुपदसुतादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
