| YouTube Channel

द्राहृ (drAhR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
द्राह्
मूलधातुः:
द्राहृ
धात्वर्थः:
निद्राक्षये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
द्राहते
धातुप्रदीपः
Sanskrit
द्राहृँ द्राहृ निद्राक्षये
- द्राहते अदद्राहत् ।। 647 ।।
क्षीरतरङ्गिणी
Sanskrit
द्राहृँ द्राहृ निक्षेपे
- द्राहते द्राह्यम् द्राहृ निद्राक्षये इति दुर्गः 637
धातुवृत्तिः
Sanskrit
द्राहृँ द्राहृ (अर्थः) निद्राक्षये
(द्राहते निक्षेपइति केचित् यङ्लुकि "दादेर्धातोर्घः'' इति झलि पदान्ते चेति हस्य घकारे "झषस्तथोः'' इति धत्वे जश्त्वे (दाद्राग्धि दाद्राग्धः) इत्यादि सिपि भष्भावेन दकारस्य धकारः "खरिच'' इति धकारस्य चर्त्वे सिपः तकारस्य षत्वे (दाध्राक्षि) लङि हल्ङ्यादिना तिप्सिपोर्लोपः, भष्भावजश्त्वचर्त्वेषु (अदाध्राक् ) 637
कृदन्तरूपमाला
Sanskrit
1 {@“द्राहृ निद्राक्षये”@} 2 ‘निक्षेपे’ इति क्षीरस्वामिप्रभृतयः।
द्राहकः-हिका, द्राहकः-हिका, दिद्राहिषकः-षिका, दाद्राहकः-हिका
द्राहमानः, द्राहयमाणः, दिद्राहिषमाणः, दाद्राह्यमाणः, इत्यादीनि सर्वाण्यपि रूपाणि द्राखतिवत्, 3 ज्ञेयानि।
क्विपि, 4 प्रद्राक्-प्रद्राग्, इति, रूपमिति विशेषः।
5 द्राहितः।
प्रासङ्गिक्यः
01
=>
(८८२)
02
=>
(१-भ्वादिः-६४६। अक। सेट्। आत्म।)
03
=>
(८७९)
04
=>
[[२। ‘दादेर्धातोर्घः’ (८-२-३२) इति घत्वे जश्त्वचर्त्वयोश्च रूपम्।]]
05
=>
[[B। ‘द्राहितः शुभपथप्रकाशने सस्वजेऽथ तमनूह्यवैभवः।’ धा। का। १। ८२।]]