| YouTube Channel

द्रावकं (drAvakaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्रावकं,
क्ली,
(द्रवति द्रावयति वा द्रु द्राविवा + ण्वु ल् ।) सिक्थकम् इति राजनिर्घण्टः
प्लीहरोगस्य औषधविशेषः (यथा, --“स्फटिकारीद्बयञ्चैव पलं द्बिपलिकन्तथा ।नरसारं पलं देयं टङ्गणञ्च पलार्द्धकम्
कासीशं शाणयुग्मञ्च प्रत्येकं श्लक्ष्णचूर्णितम् ।सपञ्चलवणक्षारं कर्षमानं पृथक् पृथक्
अपामार्गवृषस्यापि तथा कुष्माण्डकस्य ।रग्भावल्कलजं क्षारं प्रत्येकञ्चार्द्धशाणकम्
श्लक्ष्णचूर्णीकृतञ्चैतत् लिम्पाकस्वरसे भुवि ।सर्व्वमेतत् सुपिष्याथ रौद्रे दद्याद्विचक्षणः
आनीय काचपात्रन्तु तत्र तत् पाचयेत् भिषक्प्रहरार्द्धं ददौ ज्वालां सालकाष्ठाग्निना मृदु ।सुतप्ते काचकुम्भे ततो ज्वालां निवारयेत्
शीतं गते तदुद्धृत्य प्रक्षिपेच्च वराटकम् ।वराटे द्रवतां याते ततः कर्म्मसु योजयेत्
द्रावकस्य परीक्षेयं नान्यथा भवत्यलम् ।गुञ्जैकं स्याद्द्वयञ्चापि चूर्णेन मागधेन
शरपुष्पेण वा देयं तोयमुष्णं पिबेदनु
पथ्यमेतद्द्रुतं देयं दुष्टशीताम्बुवर्ज्जितम्
”इति वैद्यककषायणसंग्रहे प्लीहसर्व्वोदरयकृ-दधिकारे
) अस्य अन्यद् विवरणं महाद्रावक-शब्दे द्रष्टव्यम्