| YouTube Channel

द्रापकः-पिका (drApakaH-pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“द्रा कुत्सायां गतौ”@} 2 कुत्सितगतिः = पलायनम्, निन्द्रा च।
स्वापे निपूर्वकोऽयम्।
‘द्रै स्वप्ने द्रायति द्राति कुत्सिते गमने लुकि।।’ 3 इति देवः।
द्रायकः-यिका, द्रापकः-पिका, दिद्रासकः-सिका, दाद्रायकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदातिवत् 4 ज्ञेयानि।
5 6 निद्रालुः 7 -तन्द्रालुः 8, 9 तन्द्रा, 10 द्राणम्-द्राणः-द्राणवान्, 11 प्रणिद्राता, इत्यादीन्यस्य रूपाणि यथायथं भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(८७७)
02
=>
(२-अदादिः-१०५४। अक। अनि। पर।)
03
=>
(श्लो। ६)
04
=>
(८३३)
05
=>
[पृष्ठम्०७७७+ २८]
06
=>
[[१। तच्छीलादिषु कर्तृषु, ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्’ (३-२-१५८) इत्यनेन निपूर्वकात् तत्पूर्वकाच्चास्मात् आलुच्प्रत्ययः। तदो दकारस्य प्रत्ययसन्नियोगेन नकारादेशोऽपि सूत्रकारनिर्देशाद् भवति।]]
07
=>
[[आ। ‘स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुमदयालुवत्।’ भ। का। ७। २१।]]
08
=>
[[B। ‘तं पश्यन् नकुलं राजा तन्द्रालुर्दृङ्निमेषणे।’ च। भा। ६। १५।]]
09
=>
[[२। ‘घञर्थे कविधानम्’ (वा। ३-३-५८) इति कप्रत्यये, ‘स्पृहिगृहिपतिदयिनिद्रा- तन्द्रा--’ (३-२-१५८) इति सूत्रे निर्देशबलात् तदो दकारस्य नकारे, अदन्त- त्वेन टापि रूपमेवम्।]]
10
=>
[[३। ‘संयोगादेरातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वे णत्वे रूपम्।]]
11
=>
[[४। तृचि, प्रपूर्वकात् नेः, ‘नेगदनदपतपदघुमास्यतिहन्तियातिवातिद्राति--’ (८-४-१७) इति णत्वम्।]]
1 {@“द्रै स्वप्ने”@} 2 “द्रै स्वप्ने द्रायति, द्राति कुत्सिते गमने लुकि।।” 3 इति देवः।
द्रायकः-यिका, द्रापकः-पिका, दिद्रासकः-सिका, दाद्रायकः-यिका
इत्यादीनि समस्तान्यपि रूपाणि आदादिकदाधातुवत् 4 ज्ञेयानि।
शतरि 5 निद्रायन् 6 -न्ती, इति रूपमिति विशेषः।
7 निद्रा, 8 निद्रालुः, तन्द्रालुः, 9 निद्रः इति रूपाण्यस्य भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(८८८)
02
=>
(१-भ्वादिः-९०६। अक। अनि। पर।)
03
=>
(श्लो। ६)
04
=>
(८३३)
05
=>
[[१। शतरि, आयादेशे रूपम्। स्त्रियां नुम्।]]
06
=>
[[आ। ‘निद्रायदिन्दीवरभाजि मज्जन्नध्राणधीस्तत्र तं ददर्श।।’ धा। का। २। ३०।]]
07
=>
[[२। निपूर्वकादस्मात् ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
08
=>
[[३। निपूर्वकात्, तत्पूर्वकादस्मात् ‘स्पृहिगृहिपतिदयिनिद्रातन्द्रा--’ (३-२-१५८) इत्यादिना तच्छीलादिषु कर्तृषु आलुच्प्रत्ययः। तच्छब्दे दकारस्य नकारः, सूत्रे तन्द्रा इति निर्देशात्।]]
09
=>
[[४। निद्रातीति निद्रः। कर्तरि, ‘आतश्चोपसर्गे’ (३-१-१३६) इति कप्रत्ययः।]]