| YouTube Channel

द्राघमाणः (drAghamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“द्राघृ सामर्थ्ये आयामे च”@} 2 “आयामः = दैर्घ्यक्रियेति कौशिकः।
कदर्थनम् इति स्वामी।” इति मा।
धा।
वृत्तिः।
‘ध्राघृ’ इत्यपि केचित् पठन्ति।
द्राघघः-घिका, द्राघकः-घिका, दिद्राघिषकः-षिका, दाद्राघकः-घिका
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वोक्तद्राखतिवत् 3 ज्ञेयानि।
अस्य घातोरात्मनेपदित्वात्, द्राघमाणः, दिद्राघिषमाणः, द्राघिष्यमाणः, दिद्राघिषिष्यमाणः
इति शानचि विशेषः।
4 प्रद्राघितः।
5
प्रासङ्गिक्यः
01
=>
(८८०)
02
=>
(१-भ्वादिः-११४। अक। सेट्। आत्म।)
03
=>
(८७९)
04
=>
[[B। ‘निकाममुल्लाघतनोः समत्यगात् प्रद्राघिता श्{??}ध्यगुणस्य बर्तनी।।’ धा। का। १। १६।]]
05
=>
[पृष्ठम्०७७९+ २६]