| YouTube Channel

द्राक्षि (drAkSi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
द्राङ्क्ष्
मूलधातुः:
द्राक्षि
धात्वर्थः:
घोरवाशिते
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
द्राङ्क्षति
धातुप्रदीपः
Sanskrit
द्राक्षिँ द्राक्षि
मानकरूपान्तरम् - ध्राक्षिँ
ध्राक्षि
मानकरूपान्तरम् - ध्वाक्षिँ
ध्वाक्षि घोरवाशिते
- द्राङ्घति दद्राङ्घ। ध्राङ्क्षति ।ध्वाङ्क्षति ध्वाङ्क्षः ।। 673-675।।
क्षीरतरङ्गिणी
Sanskrit
द्राक्षिँ द्राक्षि
मानकरूपान्तरम् - ध्राक्षिँ
ध्राक्षि घोरनिवाशिते
- ध्वाक्षि चेति दुर्गः
धातुवृत्तिः
Sanskrit
द्राक्षिँ द्राक्षि
मानकरूपान्तरम् - ध्राक्षिँ
ध्राक्षि
मानकरूपान्तरम् - ध्वाक्षिँ
ध्वाक्षि (अर्थः) घोरवासिते
( द्राङ्क्षति ध्राङक्षति द्राक्षा ध्राक्षा ध्राक्षा द्राक्षामत् ध्वाक्षामत् ) ( सूत्रम्) मादुपधायाश्च मतोर्वोयवादिभ्यः (इति सूत्रम्) मकारान्तात् मवर्णोपधात् अवर्णान्तात् अवर्णोपधाच्च परस्य मतुपो मकारस्य वकार इति प्राप्तं वत्वं यवादिभ्यः परस्य नेति निषेधात् भवति द्राक्षाध्राक्षाशब्दयोरनुनासिकलोपोपि यवादिपाठादेव ( ध्वाङ्क्षति ध्वाङ्क्षः) तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्ष ( सूत्रम्) ध्वाङ्क्षेण क्षेपे (इति सूत्रम्) इति सप्तम्यन्तं ध्वाङ्क्षवाचिना क्षेपे गम्यमाने नित्यं समस्यत इति तत्पुरुषः क्षेपोत्रानवस्थादिनाऽवगम्यते 661
कृदन्तरूपमाला
Sanskrit
1 {@“द्राक्षि घोरवासिते च”@} 2 ‘घोरनिवाशिते’ इति क्षीरस्वामी।
चकारात् काङ्क्षायाम् इति धा।
का।
व्याख्याने 3 द्राङ्क्षकः-क्षिका, द्राङ्क्षकः-क्षिका, दिद्रांक्षिषकः-षिका, दाद्रांक्षकः-क्षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककाङ्क्षतिवत् 4 ज्ञेयानि।
क्तिनि 5 द्राक्षा 6 इति विशेषः।
प्रासङ्गिक्यः
01
=>
(८७८)
02
=>
(१-भ्वादिः-६७०। अक। सेट्। पर।)
03
=>
(१-८५)
04
=>
(१८३)
05
=>
[[५। यवादौ (८-२-९) द्राक्षा इति निपातनान्नलोपः।]]
06
=>
[[C। ‘द्राक्षां जनो वाञ्छति नो फलानि ध्राङ्क्षद्बहुध्वाङ्क्षविचूषितानि।।’ धा। का। १। ८५।]]