| YouTube Channel

द्रव्यविशेष (dravyavizeSa)

 
वाचस्पत्यम्
Sanskrit
द्रव्यविशेष
पु०
सुश्रुतोक्ते धर्मविशेषेण द्रव्याणां पार्थिव-त्वादिविशेषे यथा“अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ।पृथिव्यप्तेजीवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्ति-रुत्कर्षस्त्वभिव्यञ्जको भवतीदं पार्थिवमिदमाप्यमिदंतैजसमिदं वायव्यमिदमाकाशीयमिति तत्र स्थूलसा-रसान्द्रमन्दस्थिरखरगुरुकठिनगन्धबहुलमीषत्कषायं प्रा-यशो मधुरमितिपार्थिव तत् स्थैर्य्य बलसङ्घातोपचयकरंविशेषतश्चाधोगतिस्वभावमिति शीतस्तिमितस्निग्ध-गुरुसरसान्द्रमृदुपिच्छिलरसबहुलमीषत्कषायाम्ललबणं म-धुररसप्रायमाप्यं तत् स्नेहनप्रह्लादनक्लेदनबन्धनविष्य-न्दनकरमिति उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूप-गुणबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्द्ध-गतिस्वभावमिति तैजसं तद्दहनपचनधारणतापनप्रका-शनप्रभावर्णकरमिति सूक्ष्मरूक्षखरशिशिरलघुविशदंस्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयंतद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति श्लक्ष्ण-सूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयंतन्मार्दवशौषिर्य्यलाघवकरमिति”