| YouTube Channel

द्रव्यगण (dravyagaNa)

 
Spoken Sanskrit
English
द्रव्यगण dravyagaNa
m.
class of similar substances
Monier Williams Cologne
English
द्रव्य—गण
m.
a class of similar substances,
Suśr.
Shabdartha Kaustubha
Kannada
द्रव्यगण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವೈದ್ಯಶಾಸ್ತ್ರದಲ್ಲಿ ಉಕ್ತವಾದ ಮೂಲಿಕೆಗಳ ಗುಂಪು
प्रयोगाः - > "समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति"
वाचस्पत्यम्
Sanskrit
द्रव्यगण
पु०
त० सुश्रुतोक्ते ओषधिविशेषाणासप्तत्रिंशन्मितानां गणभेदे ते तत्र दर्शिता यथा“द्रव्यसंग्रहणीयमध्यायं व्याख्यास्यामःअथातः समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति तद्यथा ।विदारीगन्धा विदारी सहदेवा विश्वदेवा श्वदंष्ट्रा पृथक्-पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौमहासहा क्षुद्रसहावृहत्यौ पुनर्नवैरण्डो हंसपदोवृश्चिकाल्यृषभी चेति “विदारीगन्धादिरयं गणः पित्ता-निलापहः शोषगुल्माङ्गमर्दोर्द्ध्वश्वासकासविनाशनः ।आरग्बधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्वे-न्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रक-शार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ।आरग्बधादिरित्येष गणः श्लेष्मविषापहः मेहकुष्ठज्व-रवमीकण्डूघ्नो व्रणशोधनः वरुणार्त्तगलशिग्रुत-र्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरीयकद्वय-विम्बीवसुकवसिरचित्रकशतावरीविल्वाजशृङ्गीदर्भा वृह-तीद्वयञ्चेति वरुणादिर्गणोह्येष कफमेदोनिवारणः ।विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन् वीरत-रुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्ममैदकाग्नि-मन्थमोरटावसुकवसिरभल्लूककुरुण्टकेन्दीवरकपोतवङ्क्याःश्वदंष्ट्वा चेति वीरतर्वादिरित्येष गणो वातविकारनुत् ।अश्मरीशर्करामुत्रकृच्छ्राघातरुजापहः सालसारा-जकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गीतिनिशच-न्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीका-श्वकर्णागुरूणि कालीयकञ्चेति सालसारादिरित्येषगणः कुष्ठविनाशनः मेहपाण्ड्वामयहरः कफमेदो-विशोषणः रोध्रसावररोध्रपलाशकुटन्नटाशोकफञ्जी-कट्फलैलवालुकसल्लकीजिङ्गिनीकदम्बसालाः कदलीचेति एष रोध्रादिरित्युक्तो मेदःकफहरो गणःयोनिदोषहरः स्तम्भी व्रण्यो विषविनाशनः अर्कालर्कक-रञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहा-श्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति अर्कादिको गणोह्येष कफमेदोविषापहः कृमिकुष्ठप्रशमनो विशेषाद्-व्रणशोधनः सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृण-सुगन्धकसुमुखकालमालकासमर्द्दक्षवकखरपुष्पाविडङ्गकट्-फलसुरसीनिर्गुण्डीकुलाहलोक्षोन्दुरुकर्णिकाफञ्जीप्राची-बलाकाकमाच्यो विषमुष्टिकश्चेति सुरसादिर्गणो ह्येषकफहृत् कृमिसूदनः प्रतिश्यायारुचिश्वासकासघ्नो व्रण-शोधनः मुष्ककपलाशधवचित्रकमदनवृक्षशिंशपावज्रवृ-क्षास्त्रिफला चेति मुष्ककादिर्गणो ह्येष मेदोघ्नःशुक्रदोषहृत् मेहार्शःपाण्डुरोगघ्नः शर्कराश्मरिना-शनः पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचह-स्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहा-निम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटु-रोहिणी चेति पिप्पल्यादिः कफहरः प्रतिश्याया-निलारुचीः निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः १० ।एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुका-व्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकबालक-गुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशीरभद्रदारुकु-ङ्कुमानि पुन्नागकेशरञ्चेति एलादिको वातकफौ निह-न्याद्विषमेव वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ११ ।वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरञ्चेति १२ ।हरिद्रादारुहरिद्राकलशीकुटजवोजानि मधुकं चेति १३ ।एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ आमातीसा-रशमनौ विशेषाद्दोषपाचनौ १२ १३ श्यामामहाश्यामा-तृवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपत्रश्रेणीगवा-क्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुव-र्णक्षीरी चेति उक्तः श्यामादिरित्येष गणो गुल्म-विषापहः आनाहोदरविड्भेदी तथोदावर्त्तनाशनः १४ ।वृहतीकण्टकारिकाकुटजफलपाठा मधुकञ्चेति पाच-नीयो वृहत्यादिर्गणः पित्तानिलापहः कफारोचक-हृल्लासमूत्रकृच्छ्ररुजापहः १५ पटोलचन्दनकुचन्दनमूर्वा-गुडूचीपाठाः कटुरोहिणी चेति पटोलादिर्गणःपित्तकफारोचकनाशनः ज्वरोपशमनो व्रण्यश्छर्दिक-ण्डूविषापहः १६ काकोलीक्षीरकाकोलीजीवकर्षभकमुद्ग-पर्णीमाषपणींमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षी-रोपद्मकप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकञ्चेति ।काकोल्यादिरयं पित्तशोणितानिलनाशनः जीवनोवृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा १७ ऊषकसैन्धवशिला-जतुकाशीसद्वयहिङ्गूनि तुत्थकञ्चेति ऊषकादिः कफंहन्ति गणो मेदोविशोषणः अश्मरीशर्करामूत्रकृच्छ्र-गुल्मप्रणाशनः १८ सारिवामधुकचन्दनकुचन्दनपद्मक-काश्मरीफलमधूकपुष्पाण्युशीरञ्चेति सारिवादिः पिपा-साघ्नो रक्तपित्तहरो गणः पित्तज्वरप्रशमनो विशे-षाद्दाहनाशनः १९ अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलो-त्पलनलदनलिनकेशराणि मधुकञ्चेति अञ्जनादिर्गणोह्येष रक्तपित्तनिवर्हणः विषोपशमनो दाहं निह-न्त्याभ्यन्तरं तथा २० परूषकाद्राक्षाकट्फलदाडिमराजा-दनकतकफलशाकफलानि त्रिफला चेति परूषकादि-रित्येष गणोऽनिलविनाशनः मूत्रदोषहरो हृद्यःपिपासाघ्नो रुचिप्रदः २१ प्रियङ्गुसभङ्गाधातकीपुन्नागर-क्तचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्म-केसरयोजनवल्ल्यो दीर्घमूला चेति २२ अम्बष्ठाधातकी-कुसुमसमङ्गाकद्वङ्गमधुकविल्वपेशिकारीध्रसावररोध्रपलाश-नन्दीवृक्षपद्मकेशराणि चेति २३ “गणौ प्रियङ्ग्वम्बष्ठादीपक्वातीसारनाशनौ सन्धानीयौ हितौ पित्ते व्रणा-नाञ्चापि रौपणौ २२ २३ न्यग्रोधोडुम्बराश्वत्थप्लक्षमधूक-कपीतनककुभाम्रकोशास्रचोरकपत्रजम्बूद्वयपियालमधुक-रोहिणीवञ्जुलकदम्बवदरीतिन्दुकोसल्लकीरोध्रसावररोध्र-भल्लातकपलाशा नन्दीवृक्षश्चेति न्यग्रोधादिर्गणो व्रण्यःसंग्राही भग्नसाधकः रक्तपित्तहरो दाहमे दोघ्नोयोनिदोषहृत् २४ गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्म-कञ्चेति एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः ।हृल्लासारोचकवमीपिपासादाहनाशनः २५ उत्पल-रक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकञ्चेति ।उत्पलारिरयं दाहपित्तरक्तविनाशनः पिपासाविष-हृदोगच्छर्दिमूर्च्छाहरो गणः २६ मुस्ताहरिद्रादारुहरि-द्राहरीतक्यामलकविभीतककुष्ठहैमवतीवचापाठाकटुरोहि-णीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्तकश्चेति ।एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः योनि-दोषहरः स्तन्यशोधनः पाचनस्तथा २७ हरितक्यामल-कविभीतकानि त्रिफला त्रिफला कफपित्तघ्नी मेहकुष्ठ-विनाशिनी चक्षुष्यादोपनी चैव विषमज्वरना शिनी २८ ।पिप्पलीमरिचशृङवेराणि त्रिकटुकम् त्र्यूषणं कफ-मेदोघ्नं मेहकुष्ठत्वगामयान् निहन्याद्दीपनं गुलम-पीनसाग्न्यल्पतामपि २९ आमलकीहरीतकीपिप्पल्यश्चि-त्रकश्चेति आमलक्यादिरित्येष गणः सर्वज्वरापहः ।चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ३० त्रपुसीसता-म्ररजतकृष्णलोहसुवर्णानि लोहमलञ्चेति गणस्त्र-पादिरित्येष गरक्रिमिहरः परः पिपासाविषहृद्रोग-पाण्डुमेहहरस्तथा ३१ लाक्षारेवतकुटजाऽश्वमारकट्-फडहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति ।कषायस्तिक्तमधुरः कफपित्तार्त्तिनाशनः कुष्ठक्रिमि-हरश्चैव दुष्टव्रणविशोधनः ३२ पञ्च पञ्चमूलान्यत ऊर्द्ध्वंवक्ष्यामः तत्र त्रिकण्टकवृहतीद्वयपृथक्पर्ण्यो विदा-रीगन्धा चेति कनीयः कषायतिक्तमधुरं कनीयःपञ्चमूलकम् वातघ्नं पित्तशमनं वृंहणं बलवर्द्धनम् ३२ ।विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्यश्चेति महत् “सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् मधुरानुरस-ञ्चैव पञ्चमूलं महत् स्मृतम् ३३ अनयोर्दशमूलमुच्यते ।“गणः श्वासहरोह्येष कफपित्तानिलापहः आमस्यपाचनश्चैव सर्वज्वरविनाशनः ३४ विदारीसारिवारजनी-गुडूच्योऽजशृङ्गी चेति वल्लीसंज्ञः करमर्दत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसंज्ञः रक्तपि-हरौ ह्येतौ शोफत्रयविनाशनौ सर्वमेहहरौ चैव शुक्र-दोषविनाशनौ ३५ ३६ कुशकाशानलदर्भकाण्डेक्षुका इतितृणसंज्ञकः मूत्रदोषविकारश्च रक्तपित्तं तथैव ।अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् एषां वा-तहरावाद्यावन्त्यः पित्त विनाशनः पञ्चकौ श्लेष्मशमना-वितरौ परिकीर्तितौ” ३७ त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ।“समासेन गणा ह्येते प्रोक्तास्तेषान्तु विस्तरम् चिकित्-सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम् एभिर्लेपान्कषायञ्च तैलं सर्पींषि पानकान् प्रविभज्य यथान्यायंकुर्वीत मतिमान् भिषक् धूमवर्षानिलक्लेदैः सर्वर्तुष्वन-भिद्रुते ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् ।समीक्ष्य दोषभेदांश्च गणान् भिन्नान् प्रयोजयेत् पृथङ्-मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम्”