द्रव्यं (dravyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishद्रव्यं 1 A thing, substance, object, matter.
2 The ingredient or material of anything.
3 A material to work upon.
4 A fit or suitable object (to receive instruction, &c.): Mu. 7. 14
see अद्रव्य also.
5 An elementary substance, the substratum of properties, one of the seven categories of the Vaiśeṣikas
(the dravyas are nine:
पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि).
6 Any possession, wealth, goods, property, money
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः U. 2. 19.
7 A medicinal substance or drug.
8 Modesty.
9 Bell-metal.
10 Spirituous liquor.
11 A wager, stake.
12 Anointing, plastering.
13 An ointment.
14 The animal-dye, lac.
15 Extract, gum.
Comp.
अर्जनं,
वृद्धिः,
सिद्धिः f. acquisition of wealth.
ओघः f. affluence, abundance of wealth.
गणः a class of 37 similar substances (in Medic.).
परिग्रहः the possession of property or wealth.
प्रकृतिः f. the nature of matter.
वाचकं a substantive.
संस्कारः the consecration of articles for sacrifice &c.
शब्दकल्पद्रुमः
Sanskritद्रव्यं, (द्रोरिव । द्रु + “द्रव्यञ्च भव्ये ।” ५ ।३ । १०४ । इति यत्प्रत्ययेन निपातनात्साधुः ।) वस्तु । (यथा, मनुः । ७ । ९ ।“एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥
”)तस्य क्रियाविशेषे नवपुराणभेदेन प्रशस्तत्वंयथा, --“द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ ।ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः ॥
”इति नारायणदासकृतपरिभाषा ॥
(“केचिदाचार्य्या ब्रुवते द्रव्यं प्रधानं कस्माद्-व्यवस्थितत्वादिह खलु द्रव्यं व्यवस्थितम् । नरसादयो यथा ये फले ये रसादयस्ते पक्वे नसन्ति । नित्यत्वाच्च नित्यं हि द्रव्यमनित्या गुणायथा कल्कादिप्रविभागः स एव सम्पन्नरसगन्धोव्यापन्नरसगन्धो वा भवति । स्वजात्यवस्थानाच्चयथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवंशेषाणि । पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रियै-र्गृह्यते द्रव्यं न रसादयः । आश्रयत्वाच्च द्रव्य-माश्रिता रसादयो भवन्ति । आरम्भसामर्थ्याच्चद्रव्याश्रित आरम्भो यथा विदारिगन्धादिमाहृत्यसङ्क्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः ।शास्त्रप्रामाण्याच्च शास्त्रे हि द्रव्यं प्रधानमुप-देशे हि योगानां यथा मातुलुङ्गाग्निमन्थौ चेतिन रसादय उपदिश्यन्ते । क्रमापेक्षितत्वाच्चरसादीनां रसादयो हि द्रव्यक्रममपेक्षन्ते यथातरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति । एकदेश-साध्यत्वाच्च द्रव्याणामेकदेशेनापि व्याधयःसाध्यन्तेयथा महावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानं द्रव्य-लक्षणन्तु क्रियागुणवत्समवायिकारणमिति ।”“पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विनारसात् ।रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम् ॥
”“वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः ।रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः ॥
द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः ।श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः ॥
”इति सुश्रुते । १ । ४० ॥
)पित्तलम् । वित्तम् । पृथिव्यादि । विलेपनम् ।क्लीवम् । भेषजम् । भव्यम् । (द्रोर्विकारः ।“द्रोश्च ।” ४ । ३ । १६१ । इति यत् ।) द्रुम-विकारे, त्रि । इति मेदिनी । ये, २९ ॥
(द्रुमा-वयवः । इति सिद्धान्तकौमुदी ॥
) जतु । विनयः ।इति हेमचन्द्रः ॥
मद्यम् । यथा, --“सशब्दं न पिबेद्द्रव्यम् ।” इति कुलार्णवतन्त्रम् ॥
न्यायमते तन्नवविंधं यथा, --“क्षित्यप्तेजोमरुद्व्योमकाला दिग्देहिनौ मनः ।”तेषां साधर्म्म्यादि यथा, --“क्षित्यादीनां नवानान्तु द्रव्यत्वगुणयोगिता ।क्षितिर्जलं तथा तेजः पवनो मन एव च ॥
परापरत्वमूर्त्तत्वक्रियावेगाश्रया अमी ।कालखात्मदिशां सर्व्वगतत्वं परमं महत् ॥
क्षित्यादिपञ्चभूतानि चत्वारि स्पर्शवन्ति हि ।द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् ॥
अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ।रुपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमं त्रिकम् ॥
गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ।आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः ॥
”इति भाषापरिच्छेदः ॥
द्रव्यहस्तभक्षणादिदोषादोषौ यथा, --“उच्चावचान्नपानेषु द्रव्यहस्तो भवेन्नरः ।भूमौ निःक्षिप्य तद्दव्यमाचम्याभ्युक्षयेत्तु तत् ॥
तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्बिजः ।भूमौ निःक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥
यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः ।अनिधायेतरद्द्रव्यमाचान्तः शुचितामियात् ॥
वस्त्रादिषु विकल्पः स्यात्तत् स्पृष्ट्वा चाचमेदिह ।अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।कृत्वा मूत्रपुरीषं वा द्रव्यहस्तो न दुष्यति ॥
”इति कूर्म्मपुराणम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
