द्रविणोदाः (draviNodAH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritद्रविणोदाः, [स्] अग्निः । अस्य निरुक्ति-र्यथा, --“द्रविणं बलमित्युक्तं धनञ्च द्रविणं ततः ।ददाति तद्भवानेन द्रविणोदास्ततो भव ॥
”इति वराहपुराणम् ॥
(धनप्रदे, त्रि । यथा, ऋग्वेदे । १ । १५ । ७ ।“द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥
”“कीदृशं देवं द्रविणोदाः धनप्रदम् । यद्बा, धन-प्रदोऽग्निः सोमं पिबत्विति शेषः । तमेतं मन्त्रंयास्क एवं निर्वक्ति, -- द्रविणोदाः कस्मात् धनंद्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणंयदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषाभवति द्रविणोदा द्रविण स इत्यादि सोऽयंयास्कोक्तो निर्व्वचनप्रपञ्चः तस्मिन्नेव ग्रन्थेऽवगन्तव्यः । द्रविणोदाः द्रुदक्षिभ्यामिनन् नित्त्वा-दाद्युदात्तोद्रविणशब्दः तद्ददातीति द्रविणोदाः ।क्विप्चेति क्विप् । पूर्व्वपदस्य सकारोपजनश्छान्दसः ।रुत्वोत्वे । कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशे-षणत्वेनैकवाक्यतापक्षे द्वितीयायाः सुस्वादेशः ।अथवा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति । सुपआत्मनः क्यच् सर्व्वप्रातिपदिकेभ्यो लालसायांसुग्वक्तव्य इति क्यचि परतः सुगागमः द्रविण-स्यतेः सम्पदादित्वाद्भावे क्विप् । अतो लोपः ।क्वौलुप्तं न स्थानिवद्भवतीति तस्य स्यानिवत्त्व-प्रतिषेधाद्यलोपः एवंद्रविणस् शब्दो धनेच्छा-वचनः । द्रविणेच्छान्दस्यति यथेष्टधनप्रदाने-नोपक्षयतीत्यर्थे तसु उपक्षये इत्यस्मादन्तर्भावि-तण्यर्थात् क्विप्चेति क्विप् । एवं द्रविणोदःशब्दःसकारान्तो भवति । तथा द्राविणोदसाः प्रवादाभवन्तीतिनैरुक्तो व्यवहार उपपद्यते अतो-द्रविणोदस्शब्दः भिन्नवाक्यत्वे स्वार्थे प्रथमा ।एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थो भवतिद्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोम-स्येत्यर्थे सकारोपजनश्छान्दसः । आद्युदात्तत्वन्तुनियमेन स्थितम् । ऋत्विग्विशेषणत्वेनैकवाक्यत्व-पक्षेतु क्यजन्तात् क्विप् । अतो लोपादिपूर्व्ववत् ।अत्र तु पक्षे क्यचश्चित्त्वेनान्तोदात्तत्वे प्राप्तेव्यत्ययेनाद्युदात्तम् ॥
” इति सायनः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
