| YouTube Channel

द्रवत्वं (dravatvaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्रवत्वं,
क्ली,
(द्रव + त्व ।) द्रवस्य भावः तद्द्वि-विधम् यथा, --“सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमुदाहृतम् ।सांसिद्धिकन्तु सलिले द्बितीयं क्षितितेजसोः
परमाणौ जले नित्यमन्यतोऽनित्यमुच्यते ।नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु
द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत्
”इति भाषापरिच्छेदः