| YouTube Channel

द्रम (drama)

 
शब्दसागरः
English
द्रम r. 1st cl. (द्रमति) To go, to move. भ्वा० प० सक० सेट्
Wilson
English
द्रम r. 1st cl. (द्रमति) To go, to move.
Edgerton Buddhist Hybrid
English
[Drama, Kv 〔3.6〕, read Druma, q.v.]
Indian Epigraphical Glossary
English
drama (EI 23), same as dramma.
drama, same as dramma.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
द्रम्
मूलधातुः:
द्रम
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
द्रमति
अनुबन्धादिविशेषः:
मित्
धातुप्रदीपः
Sanskrit
द्रमँ द्रम
मानकरूपान्तरम् - हम्मँ
हम्म
मानकरूपान्तरम् - मीमृँ
मीमृ गतौ
- द्रमति नित्यं कौटिल्ये यङ् दंद्रम्यते दन्द्रमणः हम्मति जहम्म मीमति अमिमीमत् मीमा ।। 465-467 ।।
शब्दकल्पद्रुमः
Sanskrit
द्रम, गतौ इति कविकल्पद्रुमः (भ्वां-परं-सकं-सेट् ।) दन्त्यवर्गतृतीयादिः द्रमति इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
द्रम गतौ
भ्वा०
पर०
सक०
सेट् द्रमति अद्रमीत् द्रद्राम “वानरा दद्रमुश्चाथ संग्रामं शशंसिरे” भट्टिः यङिदंद्रम्यते “दंद्रम्यमाणः परियन्ति मूढाः” कठोप० दंद्रमणः
क्षीरतरङ्गिणी
Sanskrit
द्रमँ द्रम
मानकरूपान्तरम् - हम्मँ
हम्म
मानकरूपान्तरम् - मीमृँ
मीमृ गतौ
- द्रमति ह्मन्तक्षण (725) इति सिचि वृद्धिर्नास्ति-अद्रमीत् दन्द्रम्यते जुचङ्कम्यदन्द्रम्य (32150) इति यङन्ताद् युच्-दन्द्रमणः द्रमिमस्योरुच्च (दश0 (उ0 8113) द्रुमलं मानभाण्डम् हम्मतिः सुराष्ट्रेष्विति भाष्यात् (पस्पशाह्रिक) द्विर्बद्धो मकारः 454-456
धातुवृत्तिः
Sanskrit
द्रमँ द्रम
मानकरूपान्तरम् - हम्मँ
हम्म
मानकरूपान्तरम् - मीमृँ
मीमृ (अर्थः) गतौ
( द्रमति दद्राम द्रमितेत्यादि ) लुङि "ह्मयन्त'' इति वृद्धिनिषेधात् ( अद्रमीत् दिद्रमिषति दन्द्रमीति दन्द्रमीति दन्द्रन्ति दन्द्रान्त इत्यादि ) उत्तमे "म्वोश्च'' इति नत्वे णत्वम् ( दन्द्रण्मीत्यादि) ( अदन्द्रन् )इत्यत्र तिप्सिपोर्हल्ङयादिलोपे "मो नो धातोः'' इति नत्वे "पदान्तस्य'' इति णत्वं भवति ( द्रमयति अदिद्रमत ) अमन्तत्वान्मित्त्वम् ( अद्रमि अद्रामि द्रमन्द्रमम् द्रामन्द्रामम् ) "चिण्ण्मुलोः'' इति दीर्घविकल्पः स्यादिषु चिण्वद्पिक्षे दीर्घविकल्पे णिलोपेच (द्रमिष्ते द्रामिष्त)इत्यादि शुद्धे पुनरिटि णेर्गुणायादेशायोः(द्रमयिष्यते), इत्यादि अण्यन्तात् चिणि "नोदात्तोपदेश'' इति वृद्धिनिषेधात् ( अद्रमि )इत्येवेति एवं णिति कृति (द्रमःद्रमक) इत्यादि ( दन्द्रमणः)"जुचङ्कम्य'' इत्यादिना तच्छीलादौ यङन्तादस्माद्युचि अल्लोपयलोपौ (द्रमिडः) "ञमत्ताडुः'' इति डः "नेड्विशि कृति'' इति निषेधो बाहुलकान्न्भवति ( हम्मति जहम्म हम्मितेत्यादि जिहम्मिषति जेहम्म्यते जंहम्मीति जंहन्ति जंहन्त ) इत्यादावनुपधात्वान्नोपधादीर्घः लङि हलङयादिसंयोगान्तलोपयोः "मो नो धातोः'' इति नत्वे (अजंहन् हम्मयति अजहम्मत् हम्मित्वा हम्मतिः) ज्ञानं, गत्यर्थो बुद्ध्यर्थः, हम्मतिः ( अहम्मति ) अज्ञज्ञनम् यद्वा अहमिति मतिः अहंशब्दो मान्तोहङकारवचनोव्ययम् ( मीमति मिमीम मिमीमतुः मीमितेत्यादि मिमीमिषति मेमीम्यते मेमीमीति मेमीन्त इत्यादि लङि अमेमीन् मीमयति अमिमीमत् मीमित्वा मीमितः ) अयं शब्दे चेति क्कचित्पठ्यते 464
कृदन्तरूपमाला
Sanskrit
1 {@“द्रम गतौ”@} 2 द्रमकः-मिका, द्रमकः-मिका, दिद्रमिषकः-षिका, 3 दंद्रमिषकः-दन्द्रमकः-मिका
द्रमिता-त्री, द्रमयिता-त्री, दिद्रमिषिता-त्री, दन्द्रमिता-त्री
4 द्रमन्-न्ती, द्रमयन्-न्ती, दिद्रमिषन्-न्ती
-- इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्लाम्यतिवत् 5 ज्ञेयानि।
द्रमितम्, द्रमित्वा, इति निष्ठायाम्, क्त्वायां चास्य रूपे इति विशेषः।
6 दन्द्रमणः, 7 8 इति डप्रत्यये, ‘आर्धधातुकस्येड्वलादेः’ 9 इतीडागमः।
‘नेड् वशि कृति’ 10 इतीण्निषेधस्तु बाहुलकादत्र प्रवर्तते।]] द्रमिडः।
प्रासङ्गिक्यः
01
=>
(८७६)
02
=>
(१-भ्वादिः-४६६। सक। सेट्। पर।)
03
=>
[[२। ‘नित्यं कौटिल्ये गतौ’ (३-१-२३) इति गत्यर्थकादस्माद् यङ्। अभ्यासे, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। ‘स पदान्तवद् वाच्यः’ (वा। ७-४-८५) इति नुगागमस्य पदान्तवद्धावेन ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। तेनात्र यङन्तेषु सर्वत्र रूपद्वयं ज्ञेयम्।]]
04
=>
[[B। ‘वनाद् वनं सानुममन् द्रमन् गृहं व्याधोत्करोऽहम्मतिमीमिताशयः।’ धा। का। १। ६०।]]
05
=>
(२८३)
06
=>
[[३। तच्छीलादिषु कर्तृषु, ‘जुचङ्क्रम्यदन्द्रम्य--’ (३-२-१५०) इत्यादिना यङन्तात् युचि अनादेशे, णत्वे रूपमेवम्।]]
07
=>
[[C। ‘पश्य दन्द्रमणान् हंसान् अरविन्दसमुत्सुकान्।।’ भ। का। ७। १५।]]
08
=>
[[४। ‘ञमन्ताड्डः’ [द। उ। ५-७]
09
=>
(७-२-३५)
10
=>
(७-२-८)