| YouTube Channel

द्यूतप्रतिपदा (dyUtapratipadA)

 
वाचस्पत्यम्
Sanskrit
द्यूतप्रतिपद्(दा) द्यूतार्था प्रतिपद् वा टाप् कार्त्तिक-शुक्लप्रतिपदि तत्र द्यूतविधानं ति० त० यथा ब्रह्म०
पु०
“शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम् कार्त्तिके-शुक्लपक्षे तु प्रथमेऽहनि भूपते! जितश्च शङ्करस्तत्र जयंसेभे पार्वती अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यंसुखोषिता तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मा-नवैः” “द्यूतप्रतिपदा नाम तव भावी महोत्सवः”ति० त० धृतं बलिं प्रति भगवद्वाक्यम्