| YouTube Channel

द्यूतप्रतिपत् (dyUtapratipat)

 
शब्दसागरः
English
द्यूतप्रतिपत्
f.
(-पत्) The first day of the moon's increase in Kartic.
when BALI is to be venerated.
E.
द्यूत, and प्रतिपद् the first lunation.
Yates
English
द्यूत-प्रतिपत् (त्) 5.
m.
New moon
in
Kārtīk, when
Bāli is revered.
Wilson
English
द्यूतप्रतिपत्
f.
(-पत्) The first day of the moon's increase in
Kartik, when BĀLĪ is to be venerated.
E.
द्यूत, and प्रतिपद् the first lunation.
शब्दकल्पद्रुमः
Sanskrit
द्यूतप्रतिपत्, [द्]
स्त्री,
(द्यूताय क्रीडार्थं याप्रतिपत् ।) कार्त्तिकशुक्लप्रतिपत् सा चकौमुदी यथा, --“तुष्ट्यर्थं कार्त्तिके तस्य शुक्ला या प्रतिपत्तिथिः ।विष्णोर्दत्ता मही तत्र कौमुदी सा स्मृता बुधैः
कुशब्देन मही ज्ञेया मुदा हर्षे वै द्बिज ! ।धातुज्ञैः सर्व्वशब्दज्ञैः सा वै कौमुदी स्मृता
”इति पाद्मोत्तरखण्डम्
*
अत्र तिथौ बलिदैत्यपूजादि कार्य्यम् तद्यथा, “वामनपुराणे कार्त्तिकशुक्लपक्षमधिकृत्य बलि-म्प्रति भगवद्वाक्यम् ।वीरप्रतिपदा नाम तव भावी महोत्सवः ।अत्र त्वां नरशार्द्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः
पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः
अत्र मन्त्रः ।बलिराज ! नमस्तुभ्यं विरोचनसुत ! प्रभो ।भविष्येन्द्र सुराराते ! पूजेयं प्रतिगृह्यताम्
ब्रह्मपुराणे तु बलिराजेतिमन्त्रस्य पूर्व्वम् ।मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः
इत्यर्द्धम् पश्चादपि ।एवं पूजां नृपः कृत्वा रात्रौ जागरणं चरेत् ।इत्युक्तम्
पुनर्ब्रह्मपुराणे ।शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम् ।कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते !
जितश्च शङ्करस्तत्र जयं लेभे पार्व्वती ।अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं सुखोषिता
तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः ।तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः
पराजयो विरुद्धश्च लब्धनाशकरो भवेत्
भविष्योत्तरे ।यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! ।हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि
महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी ।स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत्
”इति तिथितत्त्वम्