| YouTube Channel

द्युत (dyuta)

 
शब्दसागरः
English
द्युत r. 1st cl. (द्योतते) To shine.
Wilson
English
द्युत r. 1st cl. (द्योतते) To shine.
Monier Williams Cologne
English
द्युत
n.
N.
of the 7th mansion (= δυτόν),
Var.
(v.l. द्युन, or द्यून).
Monier Williams 1872
English
द्युत द्युत, अम्, n. (in astrology) N. of the
seventh mansion
(also read द्युन or द्यून, q. v.)
Apte Hindi
Hindi
द्युतः
पुं*
- "दिव् + क्त, ऊठ्"
"खेलना, जुआ खेलना, पासे से खेलना"
द्युतः
पुं*
- "दिव् + क्त, ऊठ्"
जीता हुआ पुरस्कार
द्युतम्
नपुं*
- "दिव् + क्त, ऊठ्"
"खेलना, जुआ खेलना, पासे से खेलना"
द्युतम्
नपुं*
- "दिव् + क्त, ऊठ्"
जीता हुआ पुरस्कार
Shabdartha Kaustubha
Kannada
द्युत - दीप्तौ (भ्वा० आत्म० अक० से०) द्योतते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಳೆ /ಪ್ರಕಾಶಿಸು
Kridanta Forms
Sanskrit
द्यु (द्यु॒ अभिगमने - अदादिः - अनिट्)
ल्युट् = द्यवनम्
अनीयर् = द्यवनीयः - द्यवनीया
ण्वुल् = द्यावकः - द्याविका
तुमुँन् = द्योतुम्
तव्य = द्योतव्यः - द्योतव्या
तृच् = द्योता - द्योत्री
क्त्वा = द्युत्वा
ल्यप् = प्रद्युत्य
क्तवतुँ = द्युतवान् - द्युतवती
क्त = द्युतः - द्युता
शतृँ = द्युवन् - द्युवती
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
द्युत्
मूलधातुः:
द्युत
धात्वर्थः:
दीप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
द्योतते
धातुप्रदीपः
Sanskrit
द्युतँ द्युत दीप्तौ
- द्योतते दिद्युते अद्युतत् ।अद्योतिष्ट द्युतित्वा ।द्योतित्वा दिद्युतिषते दिद्योतिषते द्योतितमनेन द्युतितमनेन देद्युत्यते द्योतनः द्युतिः द्युतिगमिजुहोतीनां द्वे (3/2/178 वा) इति क्विप्, द्विर्ववचनम्-दिद्युत् भ्राजभास (3/2/177) इति क्विप्-विद्युत् ।। 744 ।।
वाचस्पत्यम्
Sanskrit
द्युत दीप्तौ
भ्वा०
अक० आत्म० सेट् द्योतते ॡदित्त्वात् अङिप० अद्युतत् अद्योतिष्ट दिद्युते द्योतनः “अद्युतच्चन्द-माभृशम्” भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तेद्योतने “व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी”माघः “विदुद्युते बाडवजातवेदमाम्” माघः शोभायाञ्च“पद्मैरनन्वीतबधूमुखद्युतः” माघः णिचि द्योतयतिप्रकाशने व्यञ्जनावृत्त्या बोधने द्योत्यार्थः व्यङ्ग्यर्थे
द्युत
पु०
द्युत--क्विप् किरणे हेमच० द्योतमाने
त्रि०
“सहि द्युता विद्युता वेति साम” ऋ० १० ९९ “द्युताद्योतमानेन” भा०
द्युत
त्रि०
द्युत--क द्योतमाने सैवचरति क्विप् द्युततिअद्युतीत् “द्युतद्यामानं वृहतीमृतेन” ऋ० ८०
क्षीरतरङ्गिणी
Sanskrit
द्युतँ द्युत दीप्तौ
इतस्त्वरान्ताः (1521) सप्तर्त्रिंशत् सेट आत्मनेपदिनश्च द्योतते द्युद्भ्यो लुङि (1391) इति वा परस्मैपदम्, तत्रैव पुषादिद्युतादि (3155) इत्यङ्-अद्युतत तङि व्यद्योतिष्ट द्युतिस्वाप्योः सम्प्रसारणम् (7467) लिटि-विदिद्युते वचनाद् हलादिशेषाभावः चङि-व्यदिद्युतत् द्योतनः क्विप्-विद्युत् द्युतेरिसिरादेश्च जः (तु0 उ0 2111) ज्योतिः घटादेः (1510) प्राग् द्युतादिगणः 720
धातुवृत्तिः
Sanskrit
द्युतँ द्युत (अर्थः) दीप्तौ
एतदादयः कृपूपर्यन्ता उदात्ता अनुदात्तेतः (द्योतते दिद्यते)"द्युतिस्वाप्योः सम्प्रसारणम्'' इति हलादिशेषं बाधित्वा सम्प्रसारणमभ्यासस्येति शेषः ( द्योतितता द्योतिष्यते द्योतताम् द्योतेते आशिषि द्योतिषीष्ट अद्योतिष्टि अद्युतत् ) "द्युद्भ्यो लुङि'' इति वा परस्मैपदम् द्युद्भ्य इतिबहुवचनादाद्यर्थावगतिः यदा परस्मैपदं तदा पुषादित्वादङ् ( दिद्युतिषते दिद्योतिषते द्युतित्वा द्योतित्वा ) "रलोव्युपधा'' इति वा कित्त्वम् देद्युत्यते "द्युतिस्वाप्योः'' इत्यभ्यास्य संप्रसारेण "गुणो यङ्लुकोः'' इत्यभ्यासनिमित्तत्वेन प्रत्यये नानन्तर्यमाश्रीयते इति णिचा व्यवधानेप्यत्र संप्रसारणं भवति अत एव तत्र वृत्तौ अद्युतदित्युदाहारि तथा "दार्ति'' इतिसूत्रे दविद्युतदित्यत्र द्युतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य संप्रसारणाभावो विगागमश्चात्वं चास्य निपातृय इत्युक्तम् आनन्तर्थे ह्माश्रीयमाणे यङो लुका लुप्तत्वादानन्तर्याभावान्न सं प्रसारणस्य प्रसङ्ग इति किं तदभाववचनेन अत्र शिवदेवः "हेरचङि'' इति अभ्यासादुत्तरस्य हिनोतेः कुत्त्वमुक्त्वा तस्याचङीति निषेधाङ्गित्वात्प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणमिति सामान्येन परिभाषामाहश्रित्य पर्यहार्षीत् अभ्यासस्य निमित्ते प्रत्ययानन्तर्ये आश्रीयमाणे ऽजीहयदित्यत्र णिचा ऽङो व्यवधानात्कुत्त्वाप्रसङ्गेपि क्रियमाणोयं निषेधो ण्यधिकस्य ज्ञापयति अस्याः परिभाषायाः सामान्यापेक्षत्वं वार्तिककारस्याभिमतम् यदाह देवः चडोन्यत्र ण्यधिकस्यापि कुत्वं भवति, तेन प्रजिधाययिषतीति सिद्धं भवतीति तथा वार्किमपि [ हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वा ] ज्ञापकं त्वन्यत्र ण्यधिकस्य कुत्वज्ञापनार्थमिति एवं "स्तम्बकर्णयोरमिजपोः" ''अर्हः'' इत्यादौ ण्यधिकस्य ग्रहणाभावाद् ण्यन्तादचो ऽभावादणि सुखार्हींत्यादि सिद्धति यदुक्तं सीरदेवेन ण्यधिकपरिभाषाया अव्यापिनीत्वात् अर्हादाप्रवृत्तिरिति सामान्यत्वमङ्गीकृत्य तपि वृत्तिवार्त्तिकविरोधादेव प्रतृयुक्तम् अस्योदुपधत्वाद् "उदुपधाद्भावादिकर्मणो)'' इति निष्ठायाः कित्त्वविकल्प उदाहार्यः ( द्युतितमेन द्योतितमनेनेत्यादि विद्युत् ) "भ्राजभास'' इत्यादिना क्किप् ( दिद्युत ) [द्युतिगममिजुहोतीनां द्वे च] इति क्कौ द्वित्वे ऽभ्यासस्य सम्प्रसारणम् ( ज्योतिः) द्युतेरिसन्, आदेश्च इतीसन् आदेश्च जः 728
कृदन्तरूपमाला
Sanskrit
1 {@“द्युत दीप्तौ”@} 2 प्रायेणायं विपूर्वकः।
3 द्योतकः-तिका, द्योतकः-तिका, 4 दिद्युतिषकः-दिद्योतिषकः-षिका, 5 देद्युतकः-तिका
द्योतिता-त्री, द्योतयिता-त्री, दिद्युतिषिता-दिद्योतिषिता-त्री, देद्युतिता-त्री
-- द्योतयन्-न्ती, द्योतयिष्यन्-न्ती-ती
-- द्योतमानः, 6 द्योतयमानः, दिद्युतिषमाणः-दिद्योतिषमाणः, देद्युत्यमानः
द्योतिष्यमाणः, द्योतयिष्यमाणः, दिद्युतिषिष्यमाणः-दिद्योतिषिष्यमाणः, देद्युतिष्यमाणः
7 दिद्युत्-दिद्युतौ-दिद्युतः
-- -- 8 द्युतितम्- 9 द्योतितम्-तः, द्योतितः, दिद्युतिषितः-दिद्योतिषितः, देद्युतितः-तवान्
10 द्योतः, 11 खद्योतः, 12 प्रद्योतनः, 13 14 उद्द्योती, 15 विदिद्युतिवान्, द्योतः, दिद्युतिषुः- 16 दिद्योतिषुः, देद्योतः
17 द्योतितव्यम्, द्योतयितव्यम्, दिद्युतिषितव्यम्-दिद्योतिषितव्यम्, देद्युतितव्यम्
द्योतनीयम्, द्योतनीयम्, दिद्युतिषणीयम्-दिद्योतिषणीयम्, देद्युतनीयम्
द्योत्यम्, द्योत्यम्, दिद्युतिष्यम्-दिद्योतिष्यम्, देद्युत्यम्
ईषद्द्योतः-दुर्द्योतः-सुद्योतः
-- -- द्युत्यमानः, द्योत्यमानः, दिद्युतिष्यमाणः-दिद्योतिष्यमाणः, देद्युत्यमानः
प्रद्योतः, द्योतः, दिद्युतिषः-दिद्योतिषः, देद्युतः
द्योतितुम्, द्योतयितुम्, दिद्युतिषितुम्-दिद्योतिषितुम्, देद्युतितुम्
18 विद्युत्, 19 द्युतिः, द्योतना, दिद्युतिषा-दिद्योतिषा, देद्युता
द्योतनम्, द्योतनम्, दिद्युतिषणम्-दिद्योतिषणम्, देद्युतनम्
20 द्युतित्वा-द्योतित्वा, द्योतयित्वा, दिद्युतिषित्वा-दिद्योतिषित्वा, देद्युतित्वा
प्रद्युत्य, प्रद्योत्य, प्रदिद्युतिष्य-प्रदिद्योतिष्य, प्रदेद्युत्य
द्योतम् २, द्युतित्वा -द्योतित्वा २, द्योतम् २, द्योतयित्वा २, दिद्युतिषम् -दिद्योतिषम् २, दिद्युतिषित्वा -दिद्योतिषित्वा २, देद्युतम्
देद्युतित्वा
21 इतीसिन्प्रत्यये, आदेश्च जकारादेशः।
ज्योतिः = ग्रहनक्षत्रादिः।
केचित्तु “अमरटीकायाम्, क्षीरस्वामिना “ज्योतते ज्योतिः।” इत्युक्तम्।
वस्तुतस्तु द्युतिरिव ज्युतिरपि स्वतन्त्रो धातुः।
तस्य कात्यायनश्रौतसूत्रे ‘तृणेनावज्योत्यासिच्यापः पुनरवज्योत्य निधायं त्रिरुद्वासयत्युदक्।’ 22 इति ल्यबन्तः प्रयोगोऽप्युपलभ्यते।” इत्याहुः।
‘अवज्योतनम् दृष्टार्थम्’ इति कर्कभाष्येऽपि ल्युडन्तः प्रयोगोऽ- प्युपलभ्यते।]] ज्योतिः।
प्रासङ्गिक्यः
01
=>
(८७४)
02
=>
(१-भ्वादिः-७४१। अक। सेट्। आत्म।)
03
=>
[पृष्ठम्०७७४+ २७]
04
=>
[[१। सन्नन्ताण्ण्वुलि, ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सेटः सनः क्त्वायाश्च कित्त्वविकल्पनात्, कित्त्वपक्षे गुणप्रतिषेधः, कित्त्वाभावपक्षे गुण इति रूपद्वयम्। ‘द्युतिस्वाप्योः सम्प्रसारणम्’ (७-४-६७) इति अभ्यासे हलादिशेषं बाधित्वा यकारस्य सम्प्रसारणम् इकारः। सन्नन्ते सर्वत्रैषा प्रक्रिया ज्ञेया। क्त्वायामप्येवमेव कित्त्वविकल्पः।]]
05
=>
[[२। यङन्तात् ण्वुलि, ‘द्युतिस्वाप्योः--’ (७-४-६७) इति प्रथमं हलादिशेषं बाधित्वा सम्प्रसारणे, अनन्तरम्, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[आ। ‘दिशो द्योतयमानाभिः दिव्यनारीभिराकुलम्।’ भ। का। ८। ४६।]]
07
=>
[[३। कर्तरि, क्विपि, ‘द्युतिगमिजुहोतीनां द्वे च’ (वा। ३-२-१७८) इति द्वित्वे, अभ्यासे सम्प्रसारणे, रूपमेवम्।]]
08
=>
[[४। ‘उदुपधाद्भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति निष्ठायाः कित्त्वविकल्पः। एतच्च भावे आदिकर्मणि या निष्ठा, तत्रैवेति। तेन रूपद्वयम्।]]
09
=>
[[B। ‘श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्।।’ भ। का। ७। १०४।]]
10
=>
[[५। इगुपधलक्षणं कप्रत्ययं बाधित्वा पचादिषु (३-१-१३४) पाठात् कर्तर्यच्प्रत्ययः।]]
11
=>
[[६। खं द्योतयतीति खद्योतः = क्रिमिविशेषः। अन्तर्भावितण्यन्तादस्मात् ‘कर्म- ण्यण्’ (३-२-१) इत्यण्प्रत्यये रूपम्।]]
12
=>
[[७। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्।]]
13
=>
[[C। ‘प्रद्योतनस्योदयमाप्य गोपाः श्वेतांशुक्रोन्मेदुरचारुवेषाः।’ धा। का। २। १।]]
14
=>
[[८। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
15
=>
[[९। लिटः क्वसौ, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीडागमे अभ्यासे सम्प्रसारणे रूपम्।]]
16
=>
[[ड्। ‘मेरोर्जेतुमिवाभोगमुच्चैर्दिद्योतिषुं मुहुः।।’ भ। का। ७। १०७।]]
17
=>
[पृष्ठम्०७७५+ २५]
18
=>
[[१। स्त्रियाम्, भावादौ, ‘सम्पदादिभ्यः--’ (वा। ३-३-९४) इति क्विप्। क्तिनोऽ- पवादः।]]
19
=>
[[२। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्प्रत्ययः।]]
20
=>
[[आ। ‘द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्।’ भ। का। ७। १०७।]]
21
=>
[[३। ‘द्युतेरिसिन् आदेश्च जः’ [द। उ। ९-३२]
22
=>
(४-१४-५)