| YouTube Channel

द्युगणः (dyugaNaH)

 
Wordnet
Sanskrit
Synonyms:
अहर्गणः, द्युवृन्दम्, दिनौघः, द्युगणः, दिनपिण्डः
noun
ग्रहाणां मध्यादिज्ञानार्थं श्वेतवाराहकल्पावधिसृष्ट्यवधिब्रह्मसिद्धान्तोक्तकल्पावधिकल्याब्धावधि वा इष्टकालपर्यन्तं परिगणितदिनसमूहः।
"ज्योतिषाचार्यः अहर्गणस्य गणनां करोति।"
शब्दकल्पद्रुमः
Sanskrit
द्युगणः
पुं,
(द्यूनां दिनानां गणः ।) अहर्गणः ।तस्यानयनमाह ।“कथितकल्पगतोऽर्कसमा गणारविगुणो गतमाससमन्वितः ।खदहनैर्गुणितस्तिथिसंयुतःपृथगतोऽधिकमाससमाहतात्
रविदिनाप्तगताधिकमासकैःकृतदिबैः सहितो द्युगणो विधोः ।पृथगतः पठितावमसंगुणा-द्बिधुदिनाप्तगतावमवर्ज्जितः
भवति भास्करवासरपूर्व्वकोदिनगणो रविमध्यमसावनः ।अधिकमासदिनक्षयशेषतोद्युघटकादिकमत्र गृह्यते
”इति सिद्धान्तशिरोमणिः