| YouTube Channel

दौर्गन्ध्यं (daurgandhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
दौर्गन्ध्यं,
क्ली,
(दुर्दुष्टो गन्धोऽस्य दुर्गन्धः ततोभावे ष्यञ् ।) दुर्गन्धता (यथा, महाभारते ।३ २६० १३ ।“न संस्वेदो दौर्गन्ध्यं पुरीषं मूत्रमेव वा
”)तन्नाशकतैलं यथा, --“चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।जातीकक्कोलपूगानां लवङ्गस्य फलानि
अगुरूशीरकाश्मर्य्यः कुष्ठं तगरनालिका ।गोरोचना प्रियङ्गुश्च चोलं मदनकं नखम्
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।कर्चूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम्
प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम्
”इति गारुडे १९८ अध्यायः