| YouTube Channel

दोषाङ्कुश (doSAGkuza)

 
वाचस्पत्यम्
Sanskrit
दोषाङ्कुश
पु०
दोषाणां काव्यदोषाणामङ्कुश इव निरासक-त्वात् चन्द्रालोकोक्ते काव्यदोषनिवारके काव्यधर्मभेदेतल्लक्षणादि तत्रोक्तं यथा“दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् निवारयतियस्त्रेधा दोषाङ्कुशमुशन्ति तम् दोषो गुणत्वं तनुते दो-षत्वं वा निरस्यति भवन्तमथ वा दोषं नयत्यत्याज्यता-मसौ मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः अत्रहास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् तव दुग्धाब्धिस-म्भूतेः कथं जाता कलङ्किता कवीनां समयाद्विद्याविरु-द्धोऽदोषतां गतः दधार गौरी हृदये देवं हि मकरा-ङ्कितम् अत्र श्लेषोदयान्नैव त्थाज्यं हीति निरर्थकम्”