| YouTube Channel

दोषग्राही (doSagrAhI)

 
शब्दकल्पद्रुमः
Sanskrit
दोषग्राही, [न्] त्रि, (दोषं गृह्णातीति ग्रह +णिनिः ।) दोषग्रहणकर्त्ता तत्पर्य्यायः ।खलः पुरोभागी द्विजिह्वः मत्सरी ।इति हलायुधः
“विसृज्य शूर्पवद्दोषान् गुणान् गृह्णन्ति साधवः ।दोषग्राही गुणत्यागी चालनीव हि दुर्ज्जनः
”इत्युद्भटः