| YouTube Channel

दोदूयमानः (dodUyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दु गतौ”@} 2 ‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
दावकः-विका, दावकः-विका, 4 दुदूषकः-षिका, 5 दोदूयकः-यिका
दोता-त्री, दावयिता-त्री, दुदूषिता-त्री, दोदूयिता-त्री
दवन्-न्ती, दावयन्-न्ती, दुदूषन्-न्ती
-- दोष्यन्-न्ती-ती, दावयिष्यन्-न्ती-ती, दुदूषिष्यन्-न्ती-ती
-- -- दावयमानः, दावयिष्यमाणः, -- दोदूयमानः, दोदूयिष्यमाणः
6 प्रदुत्-प्रदुतौ-प्रदुतः
-- -- 7 दूनम्- 8 दूनः-दूनवान्, दावितः, दुदूषितः, दोदूयितः-तवान्
9 दवः, 10 दूतः, 11 दवनः, दावः, दुदूषुः, 12 दोदुवः
दोतव्यम्, दावयितव्यम्, दुदूषितव्यम्, दोदूयितव्यम्
दवनीयम्, दावनीयम्, दुदूषणीयम्, दोदूयनीयम्
13 दव्यम्, 14 अवश्यदाव्यम्, दाव्यम्, दुदूष्यम्, दोदूय्यम्
ईषद्दवः-दुर्दवः-सुदवः
-- -- 15 16 दूयमानः, दाव्यमानः, दुदूष्यमाणः, दोदूय्यमानः
17 दवः, 18 सन्दावः, दावः, दुदूषः, दोदूयः
19 प्रणिदोतुम्-प्रनिदोतुम्, दावयितुम्, दुदूषितुम्, दोदूयितुम्
दुतिः, दावना, दुदूषा, दोदूया
दवनम्, दावनम्, दुदूषणम्, दोदूयनम्
दुत्वा, दावयित्वा, दुदूषित्वा, दोदूयित्वा
प्रदुत्य, प्रदाव्य, प्रदुदूष्य, प्रदोदूय्य
दावम् २, दुत्वा २, दावम् २, दावयित्वा २, दुदूषम् २, दुदूषित्वा २, दोदूयम्
दोदूयित्वा २।
प्रासङ्गिक्यः
01
=>
(८४७)
02
=>
(१-भ्वादिः-९४४। सक। अनि। पर।)
03
=>
(श्लो। २२)
04
=>
[[१। सन्नन्तात् ण्वुलि, द्वित्वे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, गुणनिषेधे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[२। यङन्तान्ण्वुलि, द्वित्वादिके कृते, अतो लोपे, अभ्यासे गुणे, ‘अकृत्सार्व- धातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06
=>
[[३। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुकि रूपम्। एवं ल्यपि च।]]
07
=>
[[४। ‘दुग्वोर्दीर्घश्च’ (वा। ८-२-४४) इति वचनात् निष्ठानत्वम्, अङ्गस्य दीर्घश्चभवति।]]
08
=>
[[आ। ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्।’ धा। का। २। ३५।]]
09
=>
[[५। पचाद्यचि रूपमेवम्। ‘दुन्योरनुपसर्गे’ (३-१-१४२) इत्यत्र नास्य धातोः ग्रहणम्
\n\n तत्र नयतिसाह चर्यात् सानुबन्धकस्य सौवादिकस्य दुनोतेरेव ग्रहणम् इति व्याख्यातृभिः प्रतिपादितत्वात्।]]
10
=>
[[६। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्यये, ‘अन्येषामपि--’ (६-३-१३७) इति दीर्घे, दूतः इति भवति।]]
11
=>
[[७। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युचि रूपम्। विवक्षाभेदादकर्मकत्वं सम्भवति। दवनः = गन्धविशिष्टपुष्पविशेषः।]]
12
=>
[[८। यङन्तात् पचाद्यचि, यङो लुकि, ‘अचि श्नुधातु-’ (६-४-७७) इत्युवङि रूपमेवम्।]]
13
=>
[[९। ‘अचो यत्’ (३-१-९७) इति यति, गुणे, अवादेशे रूपम्।]]
14
=>
[[१०। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, वृद्धौ, आवादेशे, ‘लुम्पेदवश्यमः कृत्ये--’ (वा। ६-३-१०९) इति अवश्यमो मकारस्य लोपे रूपम्।]]
15
=>
[पृष्ठम्०७५५+ २७]
16
=>
[[१। यकि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे रूपम्।]]
17
=>
[[२। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः। घञपवादः।]]
18
=>
[[३। ‘समियुद्रुदुवः’ (३-३-२३) इति कर्तृभिन्ने कारके घञ्। सन्दावः = पलायनम्।]]
19
=>
[[४। ‘शेषे विभाषा--’ (८-४-१८) इति नेः णत्वविकल्पः।]]