| YouTube Channel

दैववंश (daivavaMza)

 
वाचस्पत्यम्
Sanskrit
दैववंश
पु०
देवानामयम् अण् कर्म० देवानां वंशे तद्वंश-वर्णनञ्च वायुपु० ३१ अ० यथा “पितृवंशप्रसङ्गेन कथा-ह्येषा प्रकीर्तिता पितॄणामानुपूर्व्येण देवान् वक्ष्या-म्यतःपरम् त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे ।देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः अजिताब्रह्मणः पुत्रा जिताजिदजिताश्च ये पुत्राः स्वायम्भुव-स्यैते शुक्रनाम्ना तु मानसाः तृप्तिमन्तोगणा ह्येतेदेवानान्तु त्रयः स्मृताः छन्दोगास्तु त्रयस्त्रिंशत् सर्वेस्वायम्भुवस्य यदुर्ययातिर्द्वौदेवौ दीधयः स्रवसोमतिः विभासश्च क्रतुश्चैव प्रजातिर्विशतोद्युतिः ।वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः अभिमन्यु-रुग्रदृष्टिः समयोऽथ शुचिश्रवाः केवलो विश्वरूपश्चसुपक्षो मधुपस्तथा तुरीयो निर्हपुश्चैव युक्तोग्रावा-शिनस्तु ते यमिनो विश्वदेवाद्यो यविष्ठोऽमृतवानपि ।अजिरो विभुर्विभावश्च मृलिकोऽथ विदेहकः श्रुतिशृणो वृहच्छुक्रोदेवा द्वादश कीर्तिताः आसन् स्वाय-म्भुवस्यैते अन्तरे सोमपायिनः त्विषिमन्तो गणा ह्येतेवीर्यवन्तो महाबलाः तेषामिन्द्रः सदा ह्यासीद् विश्व-भुक् प्रथमो विभुः असुरा ये तदा तेषामासन् दायादवान्धवाः सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः ।अष्टौ पितृभिः सार्द्धं ते नासत्या देवयोनयः”