| YouTube Channel

दैवं (daivaM)

 
Hindi
Hindi
demigods की पूजा में
शब्दकल्पद्रुमः
Sanskrit
दैवं,
क्ली,
(देवस्येदम् देव + “तस्येदम् ।” ।३ १२० इत्यण् ।) देवतीर्थम् तत् दक्षिण-हस्ताङ्गुल्यग्रवर्त्ति इत्यमरः ५१
(यथा, मनुः ५९ ।“काथमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः
”)देवसम्बन्धिनि, त्रि यथा, --“प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् ।नापि दैवं वा पित्र्यं यावत् पूर्णो वत्सरः
”इति शुद्धितत्त्वम्
विवाहविशेषे, पुं इत्युद्बाहतत्त्वम्
अस्य विव-रणं उद्वाहशब्दे द्रष्टव्यम् (दिवि भवः ।दिव् + अण् ।) दिविभवे, त्रि
दैवं,
क्ली,
पुं,
(देवात् नियतादागतम् देव +अण् ।) भाग्यम् इत्यमरः २८
“दैवाधीनं जगत् सर्व्वं जन्मकर्म्मशुभाशुभम् ।संयोगाश्च वियोगाश्च दैवात् परं बलम्
कृष्णायात्तञ्च तद्दैवं देवात् परतस्ततः ।भजन्ति सततं सन्तः परमात्मानमीश्वरम्
दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया ।न दैवबद्धस्तद्भक्तश्चाविनाशी निर्गुणः
”इति ब्रह्मवैवर्त्ते गणेशखण्डम्
*
मनुरुवाच ।“दैवे पुरुषकारे किं ज्यायस्तद्ब्रवीतु मे ।अत्र मे संशयो देव ! छेत्तुमर्हस्यशेषतः
मत्स्य उवाच ।स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्ज्जितम् ।तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः
प्रतिकूलं यथा दैवं पौरुषेण विहन्यते ।मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम्
येषां पूर्व्वकृतं कर्म्म सात्त्विकं मनुजोत्तम् ! ।पौरुषेण विना तेषां केशाञ्चिद्दृश्यते फलम्
कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् ।कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम्
पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः ।दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः
तस्मात्त्रिकालसंयुक्तं दैवेन सफलं भवेत् ।पौरुषं दैवसम्पत्त्या काले फलति पार्थिव !
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! ।त्रयमेव मनुष्यस्य पिण्डितं स्यात् फलावहम् ।कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः ।तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन
तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः ।एवन्ते प्राप्नुवन्तीह परलोके फलं ध्रुवम्
नालसाः प्राप्नुवन्त्यर्थान्न दैवपरायणाः ।तस्मात् सदैव यत्नेन पौरुषे यत्नमाचरेत्
त्यक्तालसान्दैवपरान् मनुष्या-नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।अन्विष्य यत्नाद्वृणुते नृपेन्द्र !तस्मात् सदोत्थानवता हि भाव्यम्
”इति मत्स्यपुराणे १९५ अध्यायः